Table of Contents

<<5-2-33 —- 5-2-35>>

5-2-34 उपाधिभ्यां त्यकन्नासन्नाऽरूढयोः

प्रथमावृत्तिः

TBD.

काशिका

उप अधि इत्येताभ्यां यथासङ्ख्यम् आसन्नारूढयोर् वर्तमानाभ्ह्यां स्वार्थे त्यकन् प्रत्ययो भवति। संज्ञाधिकाराच् च नियतविषयम् आसन्नारूढं गम्यते। पर्वतस्य आसन्नम् उपत्यका। तस्य एस्व आरूढम् अधित्यका। प्रत्ययस्थात् कात्पूर्वस्य इति इत्वम् अत्र न भवति, संज्ञाधिकारादेव।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1397 उपाधिभ्याम्। संज्ञाधिकारादिह नियतविषयमासन्नारूढं गृह्रत इत्याशयेनाह— पर्वतस्येति। आसन्नं=समीपम्। आरूढम्—उच्चस्थानम्। उपत्यकेति। `प्रत्ययस्था'दितीत्त्वं तु न भवति, `त्यकनश्च निषेधः' इत्युक्तत्वात्।

Satishji's सूत्र-सूचिः

TBD.