Table of Contents

<<5-2-35 —- 5-2-37>>

5-2-36 तदस्य सञ्जातं तारकाऽअदिभ्य इतच्

प्रथमावृत्तिः

TBD.

काशिका

तदिति प्रथमासमर्थेभ्यस् तारकाऽअदिभ्यः शब्देभ्यः अस्य इति षष्ठ्यर्थे इतच् प्रत्ययो भवति। सञ्जातग्रहणं प्रकृतिविशेषणम्। तारकाः सञ्जाता अस्य नभसः तारकितं नभः। पुष्पितो वृक्षः। तारका। पुष्प। मुकुल। कण्टक। पिपासा। सुख। दुःख। ऋजीष। कुड्मल। सूचक। रोग। विचार। व्याधि। निष्क्रमण। मूत्र। पुरीष। किसलय। कुसुम। प्रचार। तन्द्रा। वेग। पुक्षा। श्रद्धा। उत्कण्ठा। भर। द्रोह। गर्भादप्राणिनि। तारकादिराकृतिगणः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1170 तारकाः संजाता अस्य तारकितं नभः. पण्डितः. आकृतिगणोऽयम्..

बालमनोरमा

1813 तदस्य। प्रथमान्तेभ्यस्तारकादिभ्योऽस्य तत्संजातमित्यर्थे इतच् स्यादित्यर्थः। तारकितं नभ इति। संजातनक्षत्रमित्यर्थः। आकृतिगणोऽयमिति। तेन `पुष्पितो वृक्षः'`फलित' इत्यादिसंग्रहः।

तत्त्वबोधिनी

1399 तारकितमिति। एवं पुष्पितं फलितं पुलकितं रोमाञ्चितमित्याद्युदाहार्यम्।

Satishji's सूत्र-सूचिः

TBD.