Table of Contents

<<5-2-1 —- 5-2-3>>

5-2-2 व्रीहिशाल्योर् ढक्

प्रथमावृत्तिः

TBD.

काशिका

व्रीहिशालिशब्दाभ्यां ढक् प्रत्ययो भवति भवने क्षेत्रे अभिधेये खञो ऽपवादः। व्रीहीणां भवनं क्षेत्रम् व्रैहेयम्। शालेयम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1168 व्रैहेयम्. शालेयम्..

बालमनोरमा

1780 व्रीहिशाल्योर्ढक्। व्रीहिशब्दाच्छालिशब्दाच्च षष्ठ\उfffद्न्ताद्भवने क्षेत्रे।ञर्थे ढगित्यर्थः। खञोऽपवादः।

तत्त्वबोधिनी

1372 व्रीहिशाल्योः। अत्रापि निर्देशादेव षष्ठी समर्थविभक्तिः। सा च भवनापेक्षया कर्तरीत्यादि पूर्ववत्।

Satishji's सूत्र-सूचिः

TBD.