Table of Contents

<<5-2-26 —- 5-2-28>>

5-2-27 विनञ्भ्यां नानाञौ नसह

प्रथमावृत्तिः

TBD.

काशिका

वि नञित्येताभ्यां यथासङ्ख्यं ना नाञित्येतौ प्रत्ययौ भवतः। नसह इति प्रकृतिविशेषणम्। असहार्थे पृथग्भावे वर्तमानाभ्यां विनञ्भ्यां सवार्थे नानाञौ प्रत्ययौ भवतः। विना। नाना।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1806 वैः शालच्छङ्कटचौ। क्रियाविशिष्टेति। क्रियाविशिष्टकारकवाचकात्स्वार्थे शालच्शङ्कटच्प्रत्ययो स्त इति यावत्। इदं च भाष्ये स्पष्यटम्।

तत्त्वबोधिनी

1394 नानाञाविति। नाञो ञकारो वृद्द्यर्थः, स्वरार्थश्च। `न सहे'ति प्रकृतिविशेषणं, न प्रत्ययार्थ इत्यादशयेनाह—असहार्थ इत्यादि। यदि प्रत्ययार्थः स्यात्ततो `द्वौ प्रतिषेधौ प्रकृतमर्थ गमयतः'इति सहार्थो गन्येत `न न सह=अपि तु सहैवे'ति। तस्मात्प्रकृतिविशेषणम्। एतच्च व्याख्यानाल्लभ्यते। यद्येवं सहेत्येव प्रत्ययार्थोऽस्तु विनञोः प्रतिषेधार्थत्वादिष्टसिद्धेः `विगार्दभरथकः'इत्यादौ विशब्दस्यापि प्रतिषेधवृत्तिद्र्दष्टैवेति। सत्यम्। क्रियावाचिनो विशब्दात्सहार्थे प्रत्ययो विज्ञायेत,—विगतेन सह, विकृतेन सहेति। सत्याद्यथोक्तमेव न्याय्यम्। एतच्च हरदत्तग्रन्थे स्पष्टम्। स्वार्थ इति। अनिर्दिष्टार्थत्वादिति भावः।

Satishji's सूत्र-सूचिः

TBD.