Table of Contents

<<5-2-24 —- 5-2-26>>

5-2-25 पक्षात् तिः

प्रथमावृत्तिः

TBD.

काशिका

तस्य इत्येव। तस्य इति षष्ठीसमर्थात् पक्षशब्दात् मूले ऽभिधेये तिः प्रत्ययो भवति। मूलग्रहणम् अनुवर्तते, न पाक्षग्रहणम्। एकयोगनिर्दिष्टानाम् अप्येकदेशो ऽनुवर्तते इति। पक्षस्य मूलं पक्षतिः प्रतिपत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1803 पक्षात्तिः। मूलग्रहणमात्रमिति। पूर्वसूत्रे पाकमूल इति समासनिर्दिष्टत्वेऽप्येकदेशे स्वरितत्वप्रतिज्ञानादिति भावः। तस्येत्यप्यनुवर्तते। पक्षशब्दात् षष्ठ\उfffद्न्तान्मूलेर्थे तिप्रत्ययः स्यादित्यर्थः।

तत्त्वबोधिनी

1392 पक्षतिरिति। प्रतिवत्, पक्षिणां, पक्षमूलं च।

Satishji's सूत्र-सूचिः

TBD.