Table of Contents

<<5-2-17 —- 5-2-19>>

5-2-18 गोष्ठात् खञ् भूतपूर्वे

प्रथमावृत्तिः

TBD.

काशिका

गावस्तिष्ठन्त्यस्मिनिति गोष्ठम्। गोष्ठशब्देन सन्निहितगोसमूहो देश उच्यते। भूतपूर्वग्रहणम् तस्य एव विशेषणम्। गोष्ठशब्दाद् भूतपूर्वोपाधिकात् स्वार्थे खञ् प्रत्ययो भवति। गोष्ठो भूतपूर्वः गौष्ठीनो देशः। भूतपूर्वग्रहणं किम्? गोष्ठो वर्तते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1796 गोष्ठात्खञ्। बूतपूर्व इति प्रकृतिविशेषणम्। भूतपूर्वार्थवृत्तेर्गोष्ठशब्दात्स्वार्थे खः स्यादिति वृत्तिकृतः।

तत्त्वबोधिनी

1385 गोष्ठात्खञ्। गावस्तिष्ठन्त्यस्मिन्निति घोष्ठः। `घञर्थे कविधानं'मित्यदिकरणे कः। `अम्बाम्बोगोभूमी'ति षत्वम्। पूर्वं भूतो भूतपूर्वः। `सुप्सुपे'ति समासः।

Satishji's सूत्र-सूचिः

TBD.