Table of Contents

<<5-2-13 —- 5-2-15>>

5-2-14 आगवीनः

प्रथमावृत्तिः

TBD.

काशिका

आगवीनः इति निपात्यते। गोः आङ्पूर्वादा तस्य गोः प्रतिपादनात् कर्मकारिणि खः प्रत्ययो निपात्यते। आगवीनः कर्मकरः। यो गवा भृतः कर्म करोति आ तस्य गोः प्रत्यर्पणात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1792 आगवीनः। कर्मकरे इति। वार्तिकलभ्यमिदम्। भृतिं गृहीत्वा यः कर्म करोति स– कर्मकरः। अत्र गोपालो विवक्षितः। स हि प्रातर्गां गृहीत्वा आसायं चारयित्वा स्वाभिनो गृहं नीत्वा प्रत्यर्पयति। तदाह–गोः प्रत्यर्पणेति। आगवीन इति। `गो' शब्दो गोप्रत्यर्पणे लाक्षणिकः। `आङ्मर्यादाभिविध्यो'रित्यव्ययीभावे `गोस्त्रियो'रिति ह्यस्वत्वे, आगुशब्दात्खे `ओर्गुणः' इति भावः।

तत्त्वबोधिनी

1382 कर्मकतरे इति। यस्तु प्रातर्गा गृहीत्वा गच्छति गोपालस्तस्मिन्नित्यर्थः। गोः प्रत्यर्पणपर्यन्तमिति। गोशब्दो लक्षणया गोः प्रतिदाने वर्तते इति भाव। आगवीन इति। `आङ्भर्यादाभिविध्यो'रित्यव्ययीभङावे `गोस्त्रियो'रिति ह्यस्वे कृतो खप्रत्ययः। `ओर्गुणः'।

Satishji's सूत्र-सूचिः

TBD.