Table of Contents

<<5-2-12 —- 5-2-14>>

5-2-13 अद्यश्वीना अवष्टब्धे

प्रथमावृत्तिः

TBD.

काशिका

विजायते इति वर्तते। अद्यश्वीन इति निपात्यते अवष्टब्धे विजने, आसन्ने प्रसवे। आविदूर्ये हि मूर्धन्यो विधीयते अवाच् च आलम्बनाऽविदूर्ययोः 8-3-68 इति। अद्य वा श्वो वा विजायते ऽद्यश्वीना गौः। अद्यश्वीना वडवा। केचित् तु विजायते इति न अनुवर्तयन्ति, अवष्टब्धमात्रे निपातनम् इत्याहुः। अद्यश्वीनं मरणम्, अद्यश्वीनो वियोगः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1791 अद्य\उfffदाईनाऽवष्टब्धे। `अद्य\उfffदाईने'त्यविभक्तको निर्देशः। अवष्टब्धम्=आसन्नम्। `अवाच्चालम्बनाविदूर्ययो'रित्याविदूर्ये स्तन्भेः षत्वविधानात्। अद्य \उfffदाओ वा विजायत इत्यर्थे अद्य \उfffदासिति समुदायात्खः स्यादासन्नत्वे गम्ये इत्यर्थः। अद्य\उfffदाईना वडवेति। अद्य वा \उfffदाओ वेति वार्थे निपानात्समासः। खे सति `अव्ययानां भमात्रे' इति टिलोपः। सूत्रे अद्य\उfffदाईनेति टाबन्तनिर्देशे तु अद्य\उfffदाईनो गोसमूहः, अद्य\उfffदाईनां गोमण्डलमिति न स्यात्।

तत्त्वबोधिनी

1381 अद्य \उfffदाओ वेति। निपातनाद्वाऽर्थे समासोऽयमिति भावः। `अवाच्चालम्बने'ति सूत्रेण आविदूर्ये स्तन्भेः षत्वविधानादवष्टब्धशब्द आसन्नपरः। `विजायते'इति हि वर्तते। स च गर्भविमोचनार्थकः। तदाह—आसन्नप्रसतेत्यर्थ इति।

Satishji's सूत्र-सूचिः

TBD.