Table of Contents

<<5-2-138 —- 5-2-140>>

5-2-139 तुन्दिबलिवटेर् भः

प्रथमावृत्तिः

TBD.

काशिका

तुन्दि बलि वटि इत्येतेभ्यो भः प्रत्ययो भवति मत्वर्थे। तुन्दिः इति वृद्धा नाभिरुच्यते, सा अस्य अस्ति इति तुन्दिभः। बलिभः। वटिभः। वलिशब्दः आमादिषु पठ्यते, तेन बलिनः इत्यपि भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1919 तन्दिवलि। तन्दि, वलि, बटि एभ्यो मत्वर्थे भप्रत्ययः स्यादित्यर्थः। समाहारद्वन्द्वात्पञ्चम्येकवचनम्। पुंस्त्वमार्षम्। वटिभ इति। `वट वेष्टने'। वटनं वटिः। सोऽस्यास्तीति विग्रहः।

तत्त्वबोधिनी

1469 वटिभ इति। `वट `वेष्टने'इन्। वटिशब्दः पामादिषु पट\उfffद्ते। तेन `वटिन'इत्यपि भवति।

Satishji's सूत्र-सूचिः

TBD.