TBD.
कम् शम् इति मकारान्तौ उद्कसुखयोर् वाचकौ, ताभ्यां ब भ युस् ति तु त यसित्येते सप्त प्रत्यया भवन्ति मत्वर्थे। कम्बः, कम्भः, कंयुः, कन्तिः, कन्तुः, कन्तः, कंयः। शम्बः, शम्भः, शंयुः, शन्तिः, शन्तुः, शन्तः, शंयः। सकारः पदसंज्ञार्थः, तेन अनुस्वारपरसवर्णौ सिद्धौ भवतः। संज्ञायां हि असत्यां कम्यः, शम्यः इति स्यात्।
TBD.
–
1918 कंशंभ्याम्। व, भ, युस्, ति, तु, त, यस्, एषां सप्तानां द्वन्द्वात् प्रथमाबहुवचनम्। सप्त प्रत्ययाः स्युरिति। `मत्वर्थे' इति शेषः। पदत्वार्थ इति। अन्यथा कमित्यस्माद्युप्रत्यये यप्रत्यये च कृते भत्वात्पदत्वाऽभावादनुस्वारो न स्यादिति भावः। वकारयकारपरस्येति-बहुव्रीहि। वकारपरकस्य यकारपरकस्य चानुस्वारस्येत्यर्थः।
1468 कंशंभ्याम्। पदत्वार्थ इति। अन्यथा `कम्युः, काम्यः, शम्युः, शाम्यः'इति स्यादिति भावः। वकारयकारपरस्येति। बहुव्रीहिरयम्। अनुनासिकौ वयाविति। एतेन प्रथमप्रत्ययः दन्त्योष्ठ\उfffदादिः, न तु पवर्गतृतीय इथि ध्वनितम्। माधव इति। `\त्तुडि तोडने'इति धातौ तेनोक्तं—`वृद्धा नाभिस्तुण्डिः'। इन्। तुण्डिरस्यास्तीति तुण्डिलः। `तुन्दादिभ्य इलच्चे'त्यत्र `स्वाङ्गाद्विवृद्धौ'इति गणसूत्रेण इलच्। तुण्डिल एव तुण्डिभः। `तुण्डिवलिवटेर्भः'इति मत्वर्थीयो भ'इति।
TBD.