Table of Contents

<<5-2-136 —- 5-2-138>>

5-2-137 संज्ञायां मन्माभ्याम्

प्रथमावृत्तिः

TBD.

काशिका

मन्नन्तात् प्रातिपदिकान् मशब्दान्ताच् च इनिः प्रत्ययो भवति मत्वर्थे, समुदायेन चेत् संज्ञा गम्यते। प्रथिमिनी। दामिनी। मशब्दान्तात् होमिनी। सोमिनी। संज्ञायाम् इति किम्? सोमवान्। होमवान्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1467 प्रथिमिनीति। `पृथ्वादिभ्यः' इतीमनिचि `टे'रिति टिलोपः। `र ऋतः' इत #इ रभावः। `अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ती'ति मन्नन्तादिनौ कृते `नस्तद्धिते'इति टिलोपे नान्तत्वान्ङीप्। दामिनीति। दाधातोर्मनिन्। होमिनी। सोमिनीति। `अर्तिस्तुसुहुसृधृक्षी'त्यौणादिकेन मनिनित्त्वाद्धोमसोमशब्दौ मप्रत्ययान्तौ।

Satishji's सूत्र-सूचिः

TBD.