Table of Contents

<<5-2-133 —- 5-2-135>>

5-2-134 वर्णाद् ब्राह्मचारिणि

प्रथमावृत्तिः

TBD.

काशिका

वर्णशब्दातिनिः प्रत्ययो भवति मत्वर्थे समुदायेन चेद् ब्रह्मचारी भण्यते। ब्रह्मचारि इति त्रैवर्णिको ऽभिप्रेतः। स हि विद्याग्रहणार्थम् उपनीतो ब्रहम चरति, नियमम् आसेवते इत्यर्थः। वर्णी, वर्णिनौ, वर्णिनः। ब्रह्मचारिणि इति किम्? वर्णवान्। ब्राह्मणादयस्त्रयो वर्णा वर्णिनः उच्यन्ते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1914 वर्णाद्ब्राहृचारिणि। वर्णशब्दान्मत्वर्थे इनिरेव, समुदायेन ब्राहृचारिणि गम्ये इत्यर्थः। वर्णीति। वर्णः=ब्राआहृणादितत्तद्वर्णोचितवसन्तादिकाले उपनयनम्, सोऽस्यास्तीति विग्रहः।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.