<<5-2-132 —- 5-2-134>>
TBD.
हस्तशब्दातिनिः प्रत्ययो नियम्यते मत्वर्थे, समुदायेन चेज् जातिरभिधीयते। हस्तो ऽस्य अस्ति इति हस्ती। हस्तिनौ हस्तिनः। जातौ इति किम्? हस्तवान् पुरुषः।
–
1913 हस्ताज्जातौ। हस्तान्मत्वर्थे इनिरेव, समुदायेन जातिविशेषे गम्ये इत्यर्थः।