Table of Contents

<<5-2-125 —- 5-2-127>>

5-2-126 स्वामिन्नैश्वर्ये

प्रथमावृत्तिः

TBD.

काशिका

स्वामिनिति निपात्यते ऐश्वर्थे गम्यमाने। स्वशदादैश्वर्यवाचिनो मत्वर्थे आमिन् प्रत्ययो निपात्यते। स्वम् अस्य अस्ति इति ऐश्वर्यम् अस्य अस्ति इति स्वामी। स्वामिनौ। स्वामिनः। ऐश्वर्ये इति किम्? स्ववान्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1906 स्वामिन्नै\उfffदार्ये। `ऐ\उfffदार्ये' इति प्रकृतिविशेषणमित्यभिप्रेत्याह– ऐ\उfffदार्यवाचकादिति। आमिनजिति। `निपात्यते' इति शेषः। स्वामीति। स्वम्=ऐ\उfffदार्यं, तद्वानित्यर्थः। नियन्तेति यावत्। ऐ\उfffदार्ये इत्युक्तेर्धनवानित्यर्थे स्वामीति न भवति।

तत्त्वबोधिनी

1465 स्वामिन्नै\उfffदार्ये। ऐ\उfffदार्यवाचकादिति। स्वशब्दस्यै\उfffदार्यवाचित्वमेतद्वृत्तिविषयकमेवेति बोध्यम्। ईशिता हि ई\उfffदारः। स तु स्वामीत्युच्यते। यथा वागीश एव वाचस्पतिः वाचः स्वामिति। ऐ\उfffदार्ये किम्?। स्ववान्।

Satishji's सूत्र-सूचिः

TBD.