TBD.
वाच्शब्दात् प्रथमासमर्थादालचाटचित्येतौ प्रत्ययौ भवतो मत्वर्थे बहुभाषिणि अभिधेये। ग्मिनेरपवादः। वाचालः। वाचाटः। कुत्सित इति वक्तव्यम्। यो हि सम्यग् बहु भाषते वाग्मीत्येव स भवति।
TBD.
–
1905 आलजाटचौ। वाच्शब्दात्–आलच्, आटच् एतौ मत्वर्थे बहुभाषिणीत्यर्थः। ग्मिनोऽपवादः। यस्तु सम्यगिति। नच अबहु अकुत्सितं च यो वदति तत्रापि वाग्ग्मीति कुतो न भवतीति वाच्यं, `यो हि सम्यग्बहु भाषते वाग्गमीत्येव स भवती'ति भाष्यबलेन पूर्वसूत्रस्य सम्यग्बहुभाषिण्येव प्रवृत्तेरभ्युपगमादिति भावः।
–
TBD.