Table of Contents

<<5-2-123 —- 5-2-125>>

5-2-124 वाचो ग्मिनिः

प्रथमावृत्तिः

TBD.

काशिका

वाच्शब्दात् ग्मिनिः प्रत्ययो भवति मत्वर्थे। वाग्मी, वाग्मिनौ, वाग्मिनः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1197 वाग्ग्मी..

बालमनोरमा

1904 वाचोग्मिनिः। वाच्शब्दान्मत्वर्थे ग्मिनिप्रत्ययः स्यादित्यर्थः। नकारादिकार उच्चारणार्थः। अतद्धित इति पर्युदासाद्गकारस्य नेत्संज्ञा। वाग्ग्मीति। वाच्शब्दात्-ग्मिनिप्रत्यये कुत्वंस जश्त्वम्। प्रत्यये गकारोच्चारणं तु `प्रत्यये भाषाया'मित्यनुनासिकाऽभावार्थम्।

तत्त्वबोधिनी

1464 वाचो ग्मिनिः। इकारो नकारपरित्राणार्थः। चकारस्य कुत्वे जश्त्वे च कृते वाग्ग्मी वाग्ग्मिनावित्यादौ द्वयोर्गकारयोः श्रवणं भवति। द्वित्वेतु — त्रयाणाम्। `मिनिः'इत्युक्ते तु द्वित्वे सति द्वयोर्गकारयोः श्रवणं, द्वित्वाऽबावे त्वेकस्यैव श्रवमं स्यात्। किंच `यरोऽनुनासिके', `प्रत्यये भाषायां नित्य'मिति वाङ्भयमित्यत्रेव नित्यमनुनासिकः प्राप्नोति, तच्चाऽनिष्टमिति ग्मिनिः कृतः।

Satishji's सूत्र-सूचिः

TBD.