TBD.
आहतप्रशंसे प्रकृत्युपाधी। आहतप्रशंसाविशिष्टार्थे वर्तमानाद् रूपशब्दात् यप् प्रत्ययो भवति मत्वर्थे। आहतं रूपमस्य रूप्यो दीनारः। रूप्यः केदारः। रूप्यं कार्षापणम्। प्रशस्तं रूपम् अस्य अस्ति रूप्यः पुरुसः। निघातिकाताडनादिना दीनारादिषु रूपं यदुत्पद्यते तदाहतम्नित्युच्यते। आहतप्रशंसयोः इति किम्? रूपवान्। यप्प्रकरणे ऽन्येभ्यो ऽपि दृश्यत इति वक्तव्यम्। हिम्याः पर्वताः। गुण्याः ब्राह्मणाः।
TBD.
–
1901 रूपादाहत। आहतेति भावे क्तः। आहतविशेषणकात्प्रशंसाविशेषणकाच्च रूपशब्दान्मत्वर्थे यप्स्यादित्यर्थः। आहतं रूपमिति। आहतेन निष्पन्नं स्वरूपं यस्येति विग्रहे रूपशब्द इत्यर्थः। रूप्यः कार्षापण इति। परिमाणविशिष्टो रजतसुवर्णादिर्मुद्रिकाविशेषयुक्तः कार्षापण इत्युच्यते। तत्स्वरूपं च स्वर्णकारकृता हनननिष्पाद्यमिति बोध्यम्। रूप्यो गौरिति। प्रशस्तरूपसम्पन्न इत्यर्थः। हिम्याः पर्वता इति। भूम्नि यप्। बहुलं हिममेष्वस्तीति विग्रहः। गुण्या ब्राआहृणा इति। प्रशंसायां यप्। प्रशस्तगुणसम्पन्ना इत्यर्थः। \र्\नन्येभ्योऽपीति। वार्तिकमिदम्। रूपशब्दादन्येभ्योऽपि यप्दृश्यत इत्यर्थः। हिम्याः पर्वता इति। भूम्नि यप्। बहुलं हिममेष्वस्तीति विग्रहः। गुण्या ब्राआहृणा इति। प्रशंसायां यप्। प्रशस्तगुणसम्पन्ना इत्यर्थः।
1461 रूपादाहत। आहतप्रशंसाविशिष्टेऽर्थे वर्तमानाद्रूपशब्दान्मत्वर्थे यप् स्यात्। आहतमिति। आहनमाहतं=ताडनमित्यर्थः। ततो निष्पन्नं यत्कार्षापणादिरूपं तदपि कार्ये कारणोपचारादाहतमित्युच्यते इत्याहतरूपयोः सामानाधिकरण्यमुपपद्यते।\र्\नन्येभ्योऽपि दृश्यते। हिम्या इत। भूम्नि यप्। पर्वता इति। हिमवान्, तत्पर्यन्तवर्तिनश्च। गुण्या इति।दृसिग्रहणादिनिरपि। तथा च माघः—`गुण्यगुण्य इति न व्यजीगणत्'। गुणी– अगुण्य इति पदच्छेदः।
TBD.