TBD.
असन्तात् प्रातिपदिकात्, माया मेधा स्रजित्येतेभ्यश्च विनिः प्रत्ययो भवति मत्वर्थे। मतुप् सर्वत्र समुच्चीयते एव। असन्तात् तावत् यशस्वी, पयस्वी। मायावी। मेधावी। स्रग्वी। मायाशब्दाद् व्रीह्यादिषु पाठातिनिठनौ अपि भवतः। मायी, मायिकः।
TBD.
1196 यशस्वी. यशस्वान्. मायावी. मेधावी. स्रग्वी..
1902 अस्मायामेधा। `अ'सित्यनेन असन्तं विवक्षितम्। असन्त, माया, मेधा, रुआज् एभ्यो विनि प्रत्ययः स्यादित्यर्थः। प्रत्यये नकारादिकार उच्चारणार्थः। यशस्वीति। `तसौ मत्वर्थे' इति भत्वान्न रुत्वमिति भावः। यशस्वानिति। `एकगोपूर्वा'दिति सूत्रे नित्यग्रहणेन निवृत्तमपि समुच्चयार्थमन्यतरस्याङ्ग्रहणमिहमण्डूकप्लुत्या अनुवर्तते, `तसौ मत्वर्थे' इति सूत्रे यशस्वानिति भाष्योदाहरणादिति भावः। रुआग्वीत्यत्र `व्रश्चे'ति षत्वमाशङ्क्याह–क्वन्नन्तत्वादिति। \र्\नामयस्येति। आमशब्दान्मत्वर्थे विनिः प्रकृतेर्दीर्घश्चेत्यर्थः।
`वक्तव्य' इति शेषः, भाष्ये तथोक्तत्वात्। चुटू इति चकारस्येत्यसंज्ञा अन्यतरस्यांग्रहणाच्चालोपभावे इनिठनौ। समुच्चयार्थकान्यतरस्याङ्ग्रहणानुवृत्तेर्मतुबपि। तथा चाऽत्र चत्वारः प्रत्ययाः। तदाह–ह्मदयालुरित्यादि। सङ्गृहणाति – शीतेति। शीत, उष्ण, तृप्र–एभ्यो द्वितीयान्तेभ्यो न सहते इत्यर्थे चालुर्वक्तव्य इत्यर्थः। तृप्रः पुरोडाश इति। मन्त्रभाष्ये तथोक्तत्वादिति भावः।
चेलुः स्यादित्यर्थः। चकार इत्। इति शेषः। वातात्समूहे चेति। षष्ठ\उfffद्न्ताद्वातशब्दात्समूहेऽर्थे, द्वितीयान्तान्न सहते इत्यर्थे च ऊलप्रत्ययो वाच्य इत्यर्थः।
`तन्वक्तव्य' इति वृत्तिकृत्, हरदत्तश्च। प्रौढमनोरमायां तु नित्त्वं निराकृतम्। शब्देन्दुशेखरे तु हरदत्तसंमतं नित्त्वमेव स्थापितम्। रूढत्वादवयवार्थाऽभावान्न मतुप्।
1462 अस्मायामेधा। यशस्वीति। `तसौ मत्वर्थे 'इति भत्वाद्रुत्वं न। यशस्वानिति। नित्यग्रहणात्पूर्वत्राऽसंबद्धमप्यन्यतरस्याङ्ग्रहणं मतुप्समुच्चयार्थमिह संबध्यत एव। `तसौ मत्वर्थे'इति सूत्रे यशस्वी यशस्वानिति भाष्योदाहरणादिति भावः। `चोः कु'रित्यनेन सिद्धे व्रश्चादिषत्वमाशङ्क्याह—क्विन्नन्तत्वादिति।
अन्यतरस्याङ्ग्रहणमिनिठनोः प्राप्त्यर्थम्। मतुप् सर्तत्र समुच्चीयत एव। चकारस्य `चुटू'इतीत्संज्ञा। तेन ह्मदयालुशब्दोऽन्तोदात्त इत्याहुः। इति। `न तृप्रा उरुव्यचस'मिति मन्त्रस्य भाष्ये तथा व्याख्यातत्वादिति भावः। माधव इति। सुब्धातुवृत्तौ स्थितमिदम्। प्रत्यय इति माधवः। प्रकारान्तरेण व्युत्पादितौ। तप्पर्वमरुद्भ्याम्। पित्त्वमनुदात्तत्वार्थम्।
TBD.
यां तु `पर्वमरुद्भ्यां तन्वक्तव्यः'इति स्थितम्। हरदत्तेनतु `त'न्निति प्रतीकमुपादाय आद्युदात्तत्वार्थो नकार इत्युक्तम्। तच्च मनोरमायां महता प्रबन्धेन दीक्षितैर्निराकृतं तत एव तदवधार्यम्।\त्
TBD.