Table of Contents

<<5-2-117 —- 5-2-119>>

5-2-118 एकगोपूर्वाट् ठञ् नित्यम्

प्रथमावृत्तिः

TBD.

काशिका

एकपूर्वाद् गोपूर्वाच् च प्रातिपदिकान् नित्यं ठञ् प्रत्ययो भवति मत्वर्थे। एकशतम् अस्य अस्ति इति ऐकशतिकः। ऐकसहस्रिकः। गोपूर्वात् च गौशतिकः। गौसहस्रिकः। अत इत्येव एकविंशतिरस्य अस्ति इति न भवति। कथम् ऐकगविकः? समासान्ते कृते भविष्यति। कथं गौशकटिकः? शकटीशब्देन समानार्थः शकटशब्दो ऽस्ति, ततो भविष्यति। अवश्यं च अतः इत्यनुवर्त्यम्, द्वन्द्वोपतापगर्ह्यातित्येवम् आद्यर्थम्। नित्यग्रहणं मतुपो बाधनार्थम्। कथम् एकद्रव्यवत्त्वातिति? नैवायं साधुः। एकेन वा द्रव्यवत्त्वादिति समर्थनीयम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1899 एकगोपूर्वाठ्ठञ्नित्यम्। एकपूर्वाद्गोपूर्वाच्च नित्यं ठञ्स्यादित्यर्थः। यद्यपि नित्यग्रहणाऽभावेऽपि ठञा इनिठनोर्निर्वृत्तिः सिध्यति, तथापि समुच्चयार्थकाऽन्यतरस्याङ्ग्रहणानुत्त्या मतुप्समुच्चीयेत, तन्निवत्त्यर्थं नित्यग्रहणम्। ऐकशतिक इति। `पूर्वकाल' इति समासः। `सङ्ख्यायाः संवत्सर' इत्युत्तरपदवृद्धिस्तु न, तत्र प्रतिपदोक्ततद्धितार्थसमासस्यैव ग्रहणात्।

तत्त्वबोधिनी

1460 एकगोपूर्वात्। ऐकशतिक इति। एकं च तच्छतं चेति `पूर्वकाले'त्यादिना कर्मधारयः। षष्ठीतत्पुरुषाद्बहुव्रीहेद्र्वन्द्वाच्च न भवति, अनभिधानादिति हरदत्तादयः। `अत'इत्येव। नेह—एकविंशतिरस्यास्तीति। नित्यग्रहणं मतुपो बाधनार्थम्। अन्यता ठञा इनिठनोर्बाधे कृतेऽप्यन्यतरस्याङ्ग्रहणानुवृत्त्या मतुप् स्यादेवेत्याहुः। कथं `एकद्रव्यवानिति?। असाधुरेवायम्। एकेन द्रव्यवानिति वा विग्रहीतव्यम्। कथमेकदण्डीति?। `एकदेशिनैकाधिकरणे'इति निर्देशो ज्ञापयति—-`इनरपि क्वचिद्भवती'ति।

Satishji's सूत्र-सूचिः

TBD.