Table of Contents

<<5-2-116 —- 5-2-118>>

5-2-117 तुन्दादिभ्य इलच् च

प्रथमावृत्तिः

TBD.

काशिका

तुन्दादिभ्यः प्रातिपदिकेभ्य इलच् प्रत्ययो भवति मत्वर्थे। चकारादिनिठनौ मतुप् च। तुन्दिलः, तुन्दी, तुन्दिकः, तुन्दवान्। उदरिलः, उदरी, उदरिकः, उदरवान्। तुन्द। उदर। पिचण्ड। घट। यव। व्रीहि। स्वाङ्गाद् विवृद्धौ च। तुन्दादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1898 तुन्दादिभ्य इलच्च। मतुप्चेति। समुच्चयार्थकाऽन्यतरस्याङ्ग्रहणानुवृत्तेरिति भावः। उदरादयश्चत्वारस्तुन्दादिगणपठिताः। \उfffदाआङ्गाद्विवृद्धाविति। गणसूत्रमिदम्। वृद्धविषयात्वात्स्वाङ्गादिलच्, इनिठनौ मतुप्चेत्यर्थः। कर्णिल इति। वृद्धौ कर्णौ यस्येति विग्रहः।

तत्त्वबोधिनी

1459 तुन्दादिभ्य इलच्च। अन्यतरस्यामित्यनुवर्तनादाह—मतुप्?चेति। अत्र `स्वाङ्गाद्विवृद्धौ'इति पठ\उfffद्ते। विवृद्ध्युपाधिकात्स्वाङ्गवाचिन इलजादयः स्युः। विवृद्धौ कर्णावस्य —कर्णिलः कर्णी कर्णिकः कर्णवान्।

Satishji's सूत्र-सूचिः

TBD.