TBD.
व्रीह्यादिभ्यः प्रातिपदिकेभ्यः इनिठनौ प्रत्ययौ भवतो मत्वर्थे। मतुब् भवत्येव। व्रीही, व्रीहिकः, व्रीहिमान्। मायी, मायिकः, मायावान्। न च व्रीह्यादिभ्यः सर्वेभ्यः प्रत्ययद्वयम् इष्यते। किं तर्हि? शिखादिभ्य इनिर्वाच्य इकन् यवखदादिषु। परिशिष्टेभ्य उभयम्। शिखा मेखला संज्ञा बलाका माला वीणा वडवा अष्टका पताका कर्मन् चर्मन् हंसा इत्येतेभ्य इनिरेव इष्यते। यवखद कुमारी नौ इत्येतेभ्य इकन्नेव इष्यते। परिशिष्टेभ्यो द्वावपि प्रत्ययौ भवतः। व्रीहिग्रहणं किमर्थम्, यावता तुन्दादिषु व्रीहिशब्दः पठ्यते, तत्र इनिठनौ चकारेण विधीयेते? एवं तर्हि तुन्दादिसु व्रीहिग्रहणम् अर्थग्रहणम् विज्ञायते। शालयो ऽस्य सन्ति शालिनः, शाली, शालिकः, शालिमानिति। व्रीहिशिखादयः पूर्वं पठिताः। यवखद। कुमारी। नौ। शीर्षान् नञः अशीर्षी, अशीर्षिकः।
TBD.
1195 व्रीही. व्रीहिकः..
1897 व्रीह्रादिभ्यश्च। `मत्वर्थे इनिठनौ' इति शेषः। वार्तिकमिदम्। `शिखा, माला, संज्ञा, वीणा, बडवा, बलाका, पताका, वर्मन्, शर्मन् एभ्य इनिरेव, नतु ठनित्यर्थः। यवखलेति। यवखल, नौ, कुमारी एभ्यष्ठनेव, न त्विनिरित्यर्थः। परिशिष्टेभ्यस्तु व्रीह्रादिगणपठितेभ्य उभावित्यर्थसिद्धम्। इदं वृत्तौ स्पष्टम्।
–
TBD.