TBD.
अकारान्तात् प्रातिपदिकादिनिठनौ प्रत्ययौ भवतः। दण्डी, दण्डिकः। छत्री, छत्रिकः । अन्यतरस्याम् इत्यधिकारान् मतुबपि भवति। दण्डवान्। छत्रवान्। तपरकरणं किम्? श्रद्धावान्। एकाक्षरात् कृतो जातेः सप्तम्यां च न तौ स्मृतौ। एकाक्षरात् तावत् स्ववान्। खवान्। कृतः कारकवान्। जातेः व्याघ्रवान्। सिंहवान्। सप्तम्याम् दन्डा अस्यां सन्ति दण्डवती शाला इति। इतिकरणो विषयनियमार्थः सर्वत्र सम्बध्यते इत्युक्तम्, तेन क्वचिद् भवत्यपि, कार्यी, हार्यी, तण्डुली, तण्दुलिकः इति।
TBD.
1194 दण्डी. दण्डिकः..
1896 अत इनिठनौ। अदन्तान्मत्वर्थे इनि ठन् एतौ स्त इत्यर्थः। समुच्चयार्थकान्यतरस्याङ्ग्रहणानुवृत्तेर्मतुलपि भवति। एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ' इति भाष्यम्। एकाक्षरात्-स्बवान्, कृतः-कारकवान्, जातेः- वृक्षकवान्, सप्तम्यां–दण्जा अस्यां शालायां सन्ति दण्डवती। इदं प्रायिकम्। तेन कार्यी कार्यिकः, तण्डुली तण्डुलिक इत्यादि सिद्धमिति भाष्ये स्पष्टम्।
1458 अत इनिठनौ। तपरकरणं किम्?। खट्वावान्। `एकाक्षरात्कृतोजातेः सप्तम्यां च न तौ स्मृतौ'। एकाक्षरात्—स्ववान्। कृतः—कारकवान्। जातेः —-व्याघ्रवान्, सिंहवान्। सप्तम्यां— दण्ड अस्यां सन्ति दण्डवती शाला। `तदस्यास्ती'ति सूत्रस्थेतिकरणो विषयनियमार्थः सर्वत्रापि संबध्यत इति। क्वचित्कृतोऽपि भवति— कार्यी। कार्यिकः। क्वचित्तु जातेरपि—तण्डुली। तण्डुलिकः। एतच्च काशिकादौ स्पष्टम्ष
TBD.