TBD.
केशशब्दाद् वः प्रत्ययो भवति मत्वर्थे अन्यतरस्याम्। ननु च प्रकृतम् अन्यतरस्यां ग्रहणम् अनुवर्तत एव? मतुप् समुचायार्थं तदित्युक्तम्। अनेन तु इनिठनौ प्रप्येते। ततश्चातूरूप्यं भवति, केशवः, केशी, केशिकः, केशवानिति। वप्रकरणे ऽन्येभ्यो ऽपि दृश्यते इति वक्तव्यम्। मणिवः। हिरण्यवः। कुररावः। कुमारावः। कुञ्जावः। राजीवम्। इष्टकावः। विम्बावः। अर्णसो लोपश्च। अर्णवः। छन्दसीवनिपौ च वक्तवयौ। रथीरभून् मुद्गलानी गविष्ठौ। सुमङ्गलीरियं वधूः। वनिप् मघवानमीमहे। वकारामतुपौ च। उद्वा च उद्वती च। मेधारथाभ्यामिरन्निरचौ वक्तव्यौ। मेधिरः। रथिरः।
TBD.
1193 केशवः. केशी. केशिकः. केशवान्. (अन्येभ्योऽपि दृश्यते). मणिवः. (अर्णसो लोपश्च). अर्णवः..
1890 केशाद्रोऽन्यतरस्याम्। `मत्वर्थे' इति शेषः। नन्विहाऽन्यतरस्याङ्ग्रहणं व्यर्थं, समर्थानामिति वाग्रहणेनैव वाक्यस्य सिद्धत्वात्। नच महाविभाषया अपवादेन मुक्ते औत्सर्गिकस्याऽप्रवृत्तेः `पारेमध्ये षष्ठ\उfffदा वे'त्यत्रोक्तत्वादिह मतुपोऽप्रवृत्त्यापत्तौ तत्प्रवृत्त्यर्थमन्यतरस्याङ्ग्रहणमिति वाच्यं, `प्राणिस्था'दिति सूत्रादन्यतरस्याङ्ग्रहणस्य समुच्चयार्थकस्याऽनुवृत्त्यैव तत्सिद्धेरित्यत आह–प्रकृतेनेति। इनिठनोरिति। इनिठनोरपीत्यर्थः। अन्यथा `सिध्मादिभ्यश्चे'त्यत्रेव मतुबेव समुच्चीयेत, नत्विनिठनाविति भावः। तथाच वप्रत्यये इनिठनोर्मतुपि च चत्वारि रूपाणीत्याह–केशव इत्यादि। \र्\नन्येभ्योऽपीति। वार्तिकमिदम्। केशादन्येभ्योऽपि मत्वर्थे वो दृश्यत इत्यर्थः। अर्णस इति। वार्तिकमिदम्। अर्णसो वप्रत्ययः प्रकृतेः सकारस्य लोपश्चेत्यर्थः।\र्\नर्णव इति। अर्णः=जलम्। तत्प्रभूतमस्मिन्नस्तीति विग्रहः। इदं तु वार्तिकं भाष्ये न दृश्यते।
–
TBD.