Table of Contents

<<5-2-109 —- 5-2-111>>

5-2-110 गाण्ड्यजगात् संज्ञायाम्

प्रथमावृत्तिः

TBD.

काशिका

गाण्दी अजग इत्येताभ्यां वः प्रत्ययो भवति संज्ञायां विषये मत्वर्थे। गान्दीवं धनुः। अजगवम् धनुः। ह्रस्वादपि भवति गाण्डिवं धनुः इति। तत्र तुल्या हि संहिता दीर्घह्रस्वयोः। उभयथा च सूत्रं प्रणीतम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1891 गाण्ड\उfffद्जगात्संज्ञायाम्। ह्यस्वदीर्घयोरिति। गाण्डिशब्दस्य गाण्डीशब्दस्य च कृतयणो गाण्ड\उfffद् इति युगपन्निर्देशः–`ख्यत्वात्परस्ये'त्यत्र खितिशब्दयोः खीतीशब्दयोश्च यथेत्यर्थः। ततश्च गाण्डिशब्दाद्गाण्जीशब्दादजगशब्दाच्च मत्वर्थे वप्रत्ययः स्यादित्यर्थः। रूढशब्दत्वादिह न मतुप्समुच्चयः।

तत्त्वबोधिनी

1455 संज्ञायामिति। `तदस्यास्ती'ति सूत्रस्थेतिशब्दस्यैवायं प्रपञ्चः।यणेति। `ख्यत्या'दिति वत्कृतयणादेशस्यानुकरणं न भवति, लक्ष्ये यणोऽभावात्। किं तु सूत्रे सांहितिकोऽयं यणिति भावः। प्रयिज्यते चोभयथा—`अधिरोहति गाण्डिवं महेषौ'। `गाण्डीवी कनकशिलानिबं भुजाभ्या'मिति च।

Satishji's सूत्र-सूचिः

TBD.