Table of Contents

<<5-2-107 —- 5-2-109>>

5-2-108 द्युद्रुभ्यां मः

प्रथमावृत्तिः

TBD.

काशिका

द्युद्रुशब्दाभ्यां मः प्रत्ययो भवति मत्वर्थे। द्युमः। द्रुमः। रूढिशब्दौ एतौ। रूढिषु मतुप् पुनर् न विकल्प्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1889 द्युद्रुभ्यां मः। `दिव उ'दिति कृतोत्वस्य दिव्शब्दस्य `द्यु' इति निर्देशः। दिव्शब्दात् द्रुशब्दाच्च मप्रत्ययः स्यादित्यर्थः। द्युमः द्रुम इति। रूढशब्दावेतौ।

तत्त्वबोधिनी

1454 द्युद्रुभ्यां मः। द्युम इति। द्यौरस्यास्ति। `दिव उ'दित्युत्वम्। द्रुर्वृक्षः सोऽस्यास्ति जनकतयेति'द्रुमोऽपि वृक्ष एव। `पलाशी द्रुद्रुमाऽगमाः'इत्यमरः। इह सर्वत्र समुच्चीयमानोऽपि मतुब्राऊढशब्देषु नेष्यते, तदर्थस्य मतुपा अभिधातुमशक्यत्वात्। दृश्यत इति। `व'इत्यनुवर्तते।\र्\नर्णसो लोपश्च। अर्णव इति। अर्तेरसुन्, नुट्च। अर्णः=जलं, तद्वान्।

Satishji's सूत्र-सूचिः

TBD.