TBD.
सिकताशर्कराभ्यां देशे ऽभिधेये लुबिलचौ भवतः। चकारादण् च, मतुप् च। कस्य पुनरयं लुप्? मतुबादीनाम् अन्यतमस्य, विशेषाभावात्। सिकता अस्मिन् विद्यते सिकता देशः, सिकतिलः, सैकतः, सिकतावान्। एवं शर्करा देशः, शर्करिलः, शार्करः, शर्करावान्। देशे इति किम्? सैकतो घटः। शार्करं मधु।
TBD.
–
1887 देशे लुबिलचौ च। पूर्वसूत्रविहितस्या।ञणो लुप्, इलच्च स्यादित्यर्थः। चादणिति। संनिहितत्वादिति भावः। तर्हि अपवादेन मुक्ते उत्सर्गस्याऽप्रवृत्तेर्मतुब्नैव स्यादित्यत आह–मतुप्चेति। समुच्चयार्थकन्यतरस्याङ्ग्रहणानुवृत्तेरिति भावः। सिकता इति। सिकताशब्दान्नित्यं बहुवचनान्तादणो लुपि प्रातिपदिकावयवत्वात्सुपो लुकि युक्तवद्भावाद्विशेष्यस्य देशस्य एकत्वेऽपि बहुवचनमिति भावः। `हयवर'डिति सूत्रे `एका च सिकता तैलदाने असमर्थेति भाष्ये प्रयोगात्सिकताशब्द एकवचनान्तोऽप्यस्तीति लिङ्गानुशासने मूलकारो वक्ष्यति।
1451 मतुप् चेति। अन्यतरस्यांग्रहणेन सर्वत्र मतुपः समुच्चयादिति भावः। सिकता इति। लुपि युक्तवद्भावः। अत्र सूत्रद्वस्योदाहरणान्यमरः संजग्राह—`स्त्री शर्करा शर्करिलः शार्करः शर्करावति। देश एवादिमावेवमुन्नेयाः सिकतावती'ति।
TBD.