Table of Contents

<<5-2-103 —- 5-2-105>>

5-2-104 सिकताशर्कराभ्यां च

प्रथमावृत्तिः

TBD.

काशिका

सिकताशर्कराभ्याम् अण् प्रत्ययो भवति मत्वर्थे। सैकतो घटः। शार्करं मधु। अदेशे इह उदाहरणम्। देशे तु लुबिलचौ भविष्यतः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1886 सिकताशर्कराभ्यां च। `मत्वर्थे अ' णिति शेषः। सैकतो घट इति। सिकता अस्य सन्तीति विग्रहः। देशे लुपो वक्ष्यमाणत्वाद्धट इति विशेष्यम्। `अप्सुमनःसमासिकतावर्षाणां बहुत्वं चे'ति लिङ्गानुशासनसूत्रात्सिकताशब्दो नित्यं बहुवचनान्तः।

तत्त्वबोधिनी

1450 सिकताशर्करा। देशविशेषस्य वक्ष्यमाणत्वादाह—घट इति।

Satishji's सूत्र-सूचिः

TBD.