Table of Contents

<<5-2-102 —- 5-2-104>>

5-2-103 अण् च

प्रथमावृत्तिः

TBD.

काशिका

तपःसहस्राभ्याम् अण् च प्रत्ययो भवति। तापसः। साहस्रः। योगविभाग उत्तरार्थः, यथासङ्ख्यार्थश्च। अण्प्रकरणे ज्योत्स्नादिभ्य उप्सङ्ख्यानम्। ज्योत्स्ना विद्यते ऽस्मिन् पक्षे ज्यौत्स्नः पक्षः। तामिस्रः। कौण्डलः। कौतपः। वैसर्पः। वौपादिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1885 अण्च। `तपःसहरुआआभ्यां मत्वर्थे' इति शेषः। ननु `तपःसहरुआआभ्यां विनीन्यणः' इत्येकमेव सूत्रमस्तु। नच तपःसहरुआआभ्यां विनीन्योर्यथासंख्यार्थं पृथक्सूत्रकरणम्, अन्यथा त्रयोऽपि प्रत्यया द्वाभ्यां स्युरिति वाच्यं, `तपःसहरुआआभ्यामण्विनीनी' इति सूत्रकरणे भिन्नविभक्त्युच्चारणादेव अण उभयसम्बन्धस्य, विनीन्योर्यथासंख्य(त्व)स्य च सिद्धेरित्यत आह–योगविभाग उत्तरार्थ इति। उत्तरसूत्रे अण एवानुवृत्त्यर्थ इत्यर्थः। इति शेषः। ज्योत्स्ना=चन्द्रिका। सा अस्यास्तीति विग्रहः। तामिरुआ इति। `कृष्णपक्ष' इति शेषः। तमिरुआआः=तमोयुक्ता रात्रयः। ता अस्य सन्तीति विग्रहः। ज्योत्स्नादित्वादण्।

तत्त्वबोधिनी

1449 उत्तरार्थ इति। विनीन्योर्यथा सङ्ख्यप्रवृत्त्यर्थश्चेत्यपि बोध्यम्। इथि। कृष्णपक्षो, नरकविशेषश्च। तमःसमूहस्तमिरुआम्। `ज्योत्स्नातमिरुओ'ति निपातनाम्नत्वर्थीयो रः। तत्र ह्रलयवभूतानि तमांसि विद्यन्ते। तदस्मिन्नस्तीति विग्रहे रान्तादण्। स्त्रियां—तामरुआई। `तमिरुआआ तामसी रात्रिर्ज्यौत्स्नि चन्द्रिकयान्विता'इत्यमरोक्तौ तु तमिरुओत्येतद्रान्तं न त्वणन्तमिति न विरोधः। एवं च तमिरुआआ रात्रयो अस्मिन् सन्ति `तामिरुआः पक्ष'इत्यपि व्याख्यातुं शक्यम्।

Satishji's सूत्र-सूचिः

TBD.