Table of Contents

<<5-2-101 —- 5-2-103>>

5-2-102 तपःसहस्राभ्यां विनीनी

प्रथमावृत्तिः

TBD.

काशिका

तपःसहस्रशब्दाभ्यां विनि इनि इत्येतौ प्रत्ययौ भवतः मत्वर्थे। प्रत्ययार्थयोस् तु यथासङ्ख्यं सर्वत्र एव अस्मिन् प्रकरणे निस्यते। तपो ऽस्य अस्मिन् वा विद्यते तपस्वी। सहस्री। असन्तत्वाददन्तत्वाच् च सिद्धे प्रत्यये पुनर् वचनम् अणा वक्ष्यमाणेन बाधा मा भूतिति। सहस्रात् तु ठनपि बाध्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1884 तपः सहरुआआभ्यां। विनिश्च इनिश्चेति द्वन्द्वः। `मत्वर्थे' इति शेषः। यथासंख्यमन्वयः। विनिप्रत्यये इनि प्रत्यये च नकारादिकारौ उच्चारणार्थौ। ननु नकारयोरित्संज्ञा कुतो न स्यात्। नच प्रयोजनाऽभावः, नित्स्वरस्यैव फलत्वादित्यत आह–नकारपरित्राणार्थ इति। तथा च उपदेशे अन्त्यत्वाऽभावान्नेत्संज्ञेचि भावः। यद्यपि `अस्मायामेधे'त्यसन्तत्वादेव तपःशब्दाद्विन्सिद्धः, सहरुआशब्दात्तु `अत इनिठनौ' इत्येवेन्सिद्धस्ततथापि विशिष्य उत्तरसूत्रविहितेन अणा असन्ताऽदन्तलक्षणयोर्विनीन्योः सामान्यलिगितयोर्बाधो मा भूदिति विशिष्येह तपःसहरुआशब्दाभ्यां तयोर्विधानम्। सहरुआशब्दात्तु अदन्तलक्षणठनोऽपि बाधनार्थमिह इन्विधानम्। एतत्समाधानं क्वचिन्मूलपुस्तकेषु दृश्यते।

तत्त्वबोधिनी

1448 तपस्वी। सहरुआईति। `असन्तत्वाददन्तत्वाच्च सिद्धे पुनर्वचनमणा बाधा माभूदिति। सहरुआआत्तु ठनोऽपि बादनार्थम्'। एतच्च समाधानं मूलपुस्तकेष्वपि क्वचिद्दृश्यते।

Satishji's सूत्र-सूचिः

TBD.