TBD.
होत्राभ्यः इत्यनुवर्तते। ब्रह्मन्शब्दाद् होत्रावाचिनः त्वः प्रत्ययो भवति भावकर्मणोः। छस्य अपवादः। ब्रह्मणो भावः कर्म वा ब्रह्मत्वम्। न इति वक्तव्ये त्ववचनं तलो बाधनार्थम्। यस् तु जातिशब्दो ब्राह्मणपर्यायो ब्रह्मन्शब्दः, ततः त्वतलौ भवत एव। ब्रह्मत्वम्, ब्रह्मता। भवनावधिकयोर् नञ्स्तञोरधिकारः समाप्तः। इति
TBD.
यां वृत्तौ पञ्चमाध्यायस्य प्रथमः पादः पञ्चमाध्यायस्य द्वितीयः पादः।
TBD.
–
1 ब्राहृणस्त्वः। `होत्राभ्यः' इत्यनुवृत्तमेकवचनेन विपरिणम्यते। तदाह– होत्रावाचिन इति। ऋत्विग्वाचिन इत्यर्थः। ननु `ब्राहृणो ने'त्येवास्तु, ब्राहृणश्छो न इत्यर्थलाभे सति छे निषिद्धे `आ च त्वा'दित्यधिकारात् `होत्राभ्यश्चः' इत्येव भावकर्मणोस्त्वप्रत्ययः सिध्यतीत्यत आह–वेति वाच्ये `तस्य भावस्त्वतलौ' इत्यनेन ब्राहृणः कर्मणि त्वस्याऽप्राप्तेस्तदर्थं त्वप्रत्ययविधानमिति न शङ्क्यम्। नापि `ब्राआहृणो ने'त्युक्ते पूर्वसूत्रविहितानां त्वतल्छानां निषेधः स्यादित्यपि शङ्क्यम्, शब्दोपात्तस्य छस्यैव निषेधात्। अत्र होत्राग्रहणानुवृत्तेः प्रयोजनमाह–ब्राआहृणपर्यायादिति।
याम् नञ्स्नञोरधिकारः। उत्तराद्र्धम्।\र्\नथ तिङन्ते भ्वादयः। मुनये तथास्तु वररुचये। गुरवे च॥1॥ तद्व्याख्यां वष्टि बालमनोरमाम्॥2॥ च शास्त्राणि प्रथन्ते, वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि चाध्येतारश्च मङ्गलयुक्ताः स्यु'रिति भाष्यप्रमाणकं ग्रन्थमध्ये विघ्नविघातादिप्रयोजनाय कृतं मङ्गलं शिष्यशिक्षायै ग्रन्थतो निबन्धाति– श्रोत्रेति। वेदाध्येता श्रोत्रियः। `श्रोत्रियंश्छन्दोऽधीते' इति वेदपर्यायाच्छन्दश्शब्दाद्द्वितीयान्तादधीत इत्यर्थे घन्प्रत्ययः,प्रकृतेः श्रोत्रादेशस्च निपातितः। श्रोत्रियस्य भावः– श्रौत्रम्। `श्रोत्रियस्य यलोपश्चे'यलोपश्चे'त्यणि इकारादुत्तरस्य यकाराऽकारसङ्घातस्य लोपे इकारस्य `यस्येति चे'ति लोपः। अर्हति–आर्यैः प्रशस्यमानेषु वेदविहितकर्मसु योग्यो भवतीत्यर्हन्। `अर्हः प्रंशसाया'मिति शतृप्रत्ययः। अर्हतो भावः–आर्हन्ती। `अर्हतो नुम् चे'ति ष्यञि आदिवृद्धौ प्रकृतेर्नुमामे षित्वान्ङीषि `हलस्तद्धितस्ये'ति यकारलोपे `यस्येति चे'त्यकारलोपः। स्त्रीत्वं लोकात्। श्रौत्रं च आर्हन्ती च वेदविहितकर्मयोग्यता च प्रसिद्धैरिति यावत्। गुण्यैरिति। नित्याऽनित्यवस्तुविवेकः, इहाऽमुत्रार्थफलभोगविरागः, शमदमादिसम्पत्तिः, मुमुक्षुत्वमित्यादिप्रशस्तगुणसम्पन्नैरित्यर्थः। `रूपादाहतप्रंशसयो'रिति सूत्रे `अन्येभ्योऽपि दृस्यते' इति वार्तिकेन यप् प्रत्ययः, तद्भाष्ये `गुण्या ब्राआहृण्या' इत्युदाहरणात्। महर्षिभिरिति। महान्तश्च ते ऋषयश्चेति कर्मधारयः। `आन्महत'इत्यात्वम्। अतितपस्विभिरित्यर्थः। अहर्दिवमिति। अहश्च दिवा चेति वीप्सायाम् `अचतुरे'त्यादिना द्वन्द्वो निपातितः। अहन्यहनीत्यर्थः। तोष्टूय्यमानोऽपीति। `ष्टुञ् स्तुतौ', सकर्मकः। गुणवत्त्वेनाऽभिधानं स्तुतिः। अभिधानक्रियानिरूपितं कर्मत्वमादय `देवान् स्तौती' त्यादौ द्वितीया। न तु गुणाभिधानमेव स्तुतिः, तथा सति गुणस्य धात्वर्थोपसङ्गृहीतत्वेनाऽकर्मकत्वापत्तेः। `धात्वादेः षः सः' इति षकारस्य सकारे ष्टुत्वनिवृत्तौ, `धातोरेकाच' इति भृशार्थे यङि, `अकृत्सार्वधातुकयो'रिति दीर्घे, `सन्यङो'रिति द्वित्वे, `शर्पूर्वाः खय' इति सकारस्याभ्यासगतस्य लोपे, `गुणो यङ्लुको'रित्यभ्यासोकारस्य गुणे, ततः परस्य सस्य `आदेशप्रत्यययो'रिति षत्वे, ष्टुत्वेन तकारस्य टकारे, `तोष्टूये'ति यङन्तात् `सनाद्यन्ता' इति धातुसंज्ञकात्कर्मणि लटि लटश्शानचि `आने मु'गिति मुमागमे, `सार्वधातुके य'गिति यकि,यङोऽकारस्य `अतो लोप'इति लोपे, `तोष्टूय्यमान' इति रूपम्। भृशं स्तूयमानोऽपीत्यर्थः। अचिन्त्यजगद्रचनाद्यनन्तगुणसम्पन्नतया भृसं सङ्कीत्र्यमानोऽपीति यावत्। अगुण इति। निर्गुण इत्यर्थः। `साक्षी चेता केवलो निर्गुणश्चे'त्यादिश्रुतेरिति भावः। निर्गुणस्य गुणवत्त्वेन कथनात्मिका स्तुतिर्विरुद्धेत्यापातप्रिपन्नं विरोधमपिशब्दो द्योतयति। गुणानां व्यावहारिकसत्यत्वेऽपि पारमार्थिकत्वाऽभावान्न विरोध इत्युत्तरमीमांसायां स्पष्टम्। विभुरिति। सर्वव्यापकः परमे\उfffदार इत्यर्थः। वि जयतेतरामिति। `जि जये', अकर्मकः। उत्कर्षेण वर्तनं जयः। `विपराभ्यां जे'रित्यात्मनेपदम्। `तिङश्चे'त्यतिशायने तरप्। `किमेत्तिङव्यये'ति तरबन्तात्स्वार्थे आम्प्रत्ययः। `तद्धिश्चाऽसर्वविभक्ति'रित्यत्र तसिलादिषु परिगणनादामन्तमव्ययम्। सर्वोत्कर्षेण वर्तत इत्यर्थः। न च `विजयते' इति समुदायस्याऽतिङन्तत्वात्कथं ततस्तरबिति वाच्यं, `वि' इति हि भिन्नं पदम्, तिङन्तोत्तरपदसमासस्य छन्दोमात्रविषयत्वात्। ततश्च जयत इत्यस्मादेव तरप्। न च `जयते' इत्यस्य `विपराभ्यां जे'रिति कृतात्मनेपदस्य विशब्दसापेक्षत्वादसामथ्र्यं शङ्क्यम्। `वी'त्युपसर्गस्य द्योतकत्वेन पृथगर्थविहीनतया तत्सापेक्षऽभावात्तिङन्तस्य प्रधानतया तस्य विशब्दाऽपेक्षत्वेऽपि बाधकाऽभावाच्चेत्यलम्। वृत्तकथनपूर्वकं वर्तिष्यमाणनिरूपणं प्रतिजानीते– पूर्वाद्र्ध इति। तृतीयाध्यायवर्तिप्रत्ययेष्वित्यर्थः। दशेति। अनुबन्धभेदाल्लकारभेद इति भावः। पञ्चम इति। लेडित्यर्थः। छन्दोमात्रेति। `लिङर्थे ले'डित्यत्र `छन्दसि लुङ्लङ्लिटः' इति पूर्वसूत्राच्छन्दसीत्यनुवृत्तेरिति भावः। एतेन लेड\उfffद्पाणि इह कुतो न प्रदश्र्यन्त इति शङ्का निरस्ता।
1 नेति वाच्ये इति। छप्रत्यये निषिद्धे `तस्य भावस्त्वतलौ'इत्यनेनैव त्वप्रत्ययः सिद्द्यति, विभक्तेरनुच्चारणाल्लाघवं च भवतीति भावः। `होत्राभ्यः'इत्यनुवृत्तेः फलं दर्शयति—ब्राआहृणपर्यायादिति।\र्\निति तत्त्वबोधिन्यां भावकर्मार्थाः। संवलिता भ्वादयः
दीक्षितं भक्तरक्षणे। दक्षिणामूर्तिमाश्रये॥1॥ शिष्यशिक्षार्थं निबन्धाति– श्रौत्रेत्यादिना। श्रौत्रियस्य भावः श्रौत्रम्। हायनान्तयुवादिभ्योऽणिति सूत्रे श्रोत्रियसय् यलोपश्चेति वार्तिकाद्यलोपेऽण्प्रत्यये च यस्येति चेतीतकारलोपः। अर्हतो भाव आर्हन्ती। गुणवचनब्राआहृणादिभ्यः इति सूत्रे अर्हतो नुम् चेत्युक्तेर्नुम्, ष्यञ् च। षित्त्वान्ङीषि हलस्तद्धितस्येतियलोपः। ताभ्यां वित्तैः– श्रौत्रार्हन्तीचणैः। तेन वित्तः इति चणप्। श्रोत्रियत्वयोग्यताभ्यां प्रसिद्धैरित्यर्थः।किं च गुण्यैः गुणवद्भिः। प्रशस्तगुणयुक्तैरिति यावत्। रूपादाहतप्रशंसयोरिति सूत्रे [मत्वर्थे] `अन्येभ्योऽपि दृश्यते' इत्युका `गुण्या ब्राआहृणाः' इत्यस्य भाष्यादावुदाह्मतत्वात्। अहर्दिवमिति। अहन्यहनि। प्रत्यहमित्यर्थः। `अचतुरे' त्यादिना निपातनात्साधुः। तोष्टूय्यमान इति। स्तौतेर्यङन्तात्कर्मणि शानच्। `सार्वधातुके य' गिति धातोर्यक्। `आने मु'गिति मुक्। अपिशब्देन आपाततो विरोधं द्योतयति। वस्तुतस्तु न विरोधः। स्तुतिप्रयोजकीभूतानामनन्तकल्याणगुणानां श्रुतिस्मृतिसिद्धत्वेऽपि बियदादिवद्व्यावहारिकत्वात्तदभावस्य पारमार्थिकत्वात्। एतच्चोत्तरमीमांसायां स्पष्टमेव। विभुव्यापकः परमे\उfffदारः। अतिशयेन विजयते विजयतेतराम्। सर्वोत्कर्षेण वर्तत इति फलितोऽर्थः। `विपराभ्यां जे'रिति इत्यस्य अप्रातिपदिकत्वादतिङन्तत्वाच्च। न च `सह सुपे'त्यत्र सहेति योगविभागात्तिङन्तेन विशब्दस्य समासे प्रातिपदिकत्वं स्यादेवेति वाच्यं, `स च छन्दस्येवे'ति तत्रत्यग्रन्थेन सह विरोधापत्तेः। किं च प्रातिपदिकत्वाभ्युपगमे सोरूत्पत्तिः स्यात्, लिङ्गसर्वनामताभ्युपगमेन नपुंसकत्वात्सोर्लुक्यपि `ह्यस्वो नपुंसके' इति ह्यस्वो दुर्वारः स्यात्। समुदायान्तर्गतस्य `जयते' इत्यस्य तिङन्तत्वेऽपि साकाङ्क्षत्वेनाऽसामथ्र्यात्ततोऽपि भवितुं नार्हति, `समर्थः पदविधि'रिति चेत्। अत्राहुः– समुदायान्तर्गताज्जयत इत्यस्मादेव तरप्। तस्य विशब्देन सह साकाङ्क्षत्वेनाऽसामथ्र्यं शङ्क्यम्। तिङन्तस्य प्रधानत्वेन सापेक्षत्वेऽपि दोषाऽभावात्, उपसर्गस्य द्योतकत्वेन प्रत्येकमर्थ एव नास्तीति साकाङ्क्षताया वक्तुमशक्यत्वाञ्चेति॥ कथितास्तुर्यपञ्चमाध्यायवर्तिनः। तृतीयाध्यायगोचराः॥2॥ हलन्तेषु `स्पृशोऽनुदके क्विन्', `ऋत्विग्दधृक्', `त्यदादिष्वि'त्यादिना क्विन्नादिव्युत्पादनं प्रासङ्गिकमिति भावः। तुर्यः– चतुर्थः। `चतुरश्छ्यतावाद्यक्षरलोपश्चेत्युक्तत्वात्। अथेति। इहापि कृत्सु `णचः स्त्रियामञ्', `अणिनुणः' इत्यादिव्युत्पादनं प्रासङ्गिकंबोध्यचम्, प्राधान्येन तु तृतीयाध्यायस्था एवेहोच्यन्त इति भावः। अनुबन्धभेदेन भेदमाश्रित्याह– दश लकारा इति। प्रदश्र्यन्त इति। यद्यपि पञ्चमलकाररूपाण्यधुना न व्युत्पाद्यन्ते तथापि लकारः स्वरूपेण प्रदश्र्यते `लः कर्मणि च बावे चाकर्मकेभ्यः', `लस्ये'त्यादिसूत्रविषयतां व्युत्पादयितुमिति भावः। पञ्चम इति। लेडित्यर्थः। लट्- लिडिति स्वोक्तक्रमापेक्षयैव लेटः पञ्चमत्वं, न तु सूत्रोक्तमेणेति बोध्यम्।
TBD.