Table of Contents

<<5-1-98 —- 5-1-100>>

5-1-99 सम्पादिनि

प्रथमावृत्तिः

TBD.

काशिका

तेन इत्येव। तृतीयासमर्थात् सम्पादिन्यभिधेये ठञ् प्रत्ययो भवति। गुणोत्कर्षः सम्पत्तिः। आवश्यके णिनिः। कर्णवेष्टकाभ्यां संपादि मुखं कार्णवेष्टकिकं मुखम्। वास्त्रयुगिकं शरीरम्। वस्त्रयुगेन विशेषतः शोभते इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1740 सम्पादिनि। तेनेत्येवेति। संपाद=संपत्तिः, शोभा, अस्यास्तीति-संपादी। तस्मिन्नर्थे तृतीयान्ताट्ठगित्यर्थः।

तत्त्वबोधिनी

1342 संपादिनि। गुणोत्कर्षः–संपत्तिः। `आवश्यके णिनि'रिति वृत्तकृत्। एवं वस्त्रयुगेन संपादि वास्त्रयुगिकं शरीरमित्यप्युदाहार्यम्। वस्त्रयुगेन अवश्यं शोभत इत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.