Table of Contents

<<5-1-97 —- 5-1-99>>

5-1-98 तेन यथाकथाचहस्ताभ्यां णयतौ

प्रथमावृत्तिः

TBD.

काशिका

दीयते, कार्यम् इति वर्तते। तेन इति तृतीयासमर्थाभ्यां यथाकथाचहस्तशब्दाभ्यां यथासङ्ख्यं णयतौ प्रत्ययौ भवतः। दीयते, कार्यम् इत्येतयोरर्थयोः प्रत्येकम् अभिसम्बधः, यथासङ्ख्यं न इष्यते। यथाकथाचशब्दो ऽव्ययसमुदायो ऽनादरे वर्तते। तृतीयार्थमात्रं च अत्र संभवति, न तु तृतीया समर्थविभक्तिः। यथाकथाच दीयते कार्यं वा याथाकथाचम्। हस्तेन दीयते कार्यं वा हस्त्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1739 तेन यथा। \र्\नर्थाभ्यामिति। प्रकृत्योः प्रत्ययोश्च यथासङ्ख्यम्, नतु दीयते कार्यमित्यनयोरित्यर्थः, वल्याख्यानादिति भावः।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.