TBD.
तत्र इति सप्तमीसमर्थेभ्यः व्युष्टादिभ्यः दीयते, कार्यम् इत्येतयोरण् प्रत्ययो भवति। व्युष्टे दीयते कार्यम् वा वैयुष्टम्। नैत्यम्। अण्प्रकरणे ऽग्निपदादिभ्य उपसङ्ख्यानम्। आग्निपदम्। पैलुमूलम्। किं वक्तव्यम्? न वक्तव्यम्। अत्र एव ते पठितव्याः। व्युष्ट। नित्य। निष्क्रमण। प्रवेशन। तीर्थ। सम्भ्रम। आस्तरण। सङ्ग्राम। सङ्घात। अग्निपद। पीलुमूल। प्रवास। उपसङ्क्रमण। व्युष्टादिः।
TBD.
–
1738 अथ ठञ्विधिर्निरूप्यते–व्युष्टादिभ्योऽण्। `तत्र च दीयते कार्य'मित्यनुवर्तते। दीयते कार्यं वेत्यर्थे सप्तम्यन्तेभ्यो व्युष्टादिभ्योऽण्स्याट्ठञोऽपवादः। व्युष्टं–प्रभातम्। वैयुष्टमिति। अणि `न य्वाभ्या'मित्यैच्।
1341 व्युष्टादिभ्योऽण्। व्युष्टशब्दः कालवाची दिवसमुके वर्तते।
TBD.