Table of Contents

<<5-1-95 —- 5-1-97>>

5-1-96 तत्र च दीयते कार्यं भववत्

प्रथमावृत्तिः

TBD.

काशिका

तत्र इति सप्तमीसमर्थात् कालवाचिनः प्रातिपदिकाद् दीयते, कार्यम् इत्येतयोरर्थयोर् भववत् प्रत्ययो भवति। यथा मासे भवं मासिकम्। सांवत्सरिकम्। प्रावृषेण्यम्। वासन्तिकम्। वासन्तम्। हैमनम्। हैमन्तम्। हैमन्तिकम्। शारदम्। वतिः सर्वसादृश्यार्थः। योगविभागश्च अत्र कर्तव्यः, तत्र च दीयते, यज्ञाख्येभ्यः इति। आग्निष्टेमिकं भक्तम्। राजसूयिकम्। वाजपेयिकम्। कालाधिकारस्य पूर्णो ऽवधिः। अतः परं सामान्येन प्रत्ययविधानम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1737 तत्र च दीयते। `तत्र दीयते' `तत्र कार्य'मित्यर्थयोः सप्तम्यन्तात्कालवाचिनो भववत्प्रत्ययाः स्युरित्यर्थः। प्रावृषेण्यमिति। `प्रावृष एण्यः' इति भवार्थे विहित इहापि भवति। शारदमिति। शरदि दीयते कार्यं वेत्यर्थः। सन्धिवेलाद्यण्भवे विहित इहापि भवति। वस्तुतस्तु तत्र कार्यं दीयते इत्यर्थे यज्ञाख्येभ्यो भववत्प्रत्ययाः स्युरित्यर्थः। अग्निष्टोमे दीयते भक्तम् आग्निष्योमिकम्। कार्यग्रहणादिग्निष्टोमे दीयते हिरण्यमित्यत्र न भवति। न ह्रग्निष्टोमे हिरण्यं क्रियत इति भाष्ये स्पष्टम्। इति प्राग्वतीये ठञधिकारे कालाधिकारः।

तत्त्वबोधिनी

1340 तत्र च। कालवाचिनः सप्तम्यन्तद्दीयते कार्यमित्येतयोरर्थयोर्मववत्प्रत्ययः स्यात्। प्रावृषेण्यमिति। `प्रावृष एण्य'इति भवार्थे विहितः, स इहाप्यतिदिश्यत इति भावः। शारदमिति। `सन्दिवेलाद्यृतुनक्षत्रेभ्योण्'। कालाधिकारस्य पूर्णोऽवधिः।

Satishji's सूत्र-सूचिः

TBD.