Table of Contents

<<5-1-8 —- 5-1-10>>

5-1-9 आत्मन्विश्वजनभोगौत्तरपदात् खः

प्रथमावृत्तिः

TBD.

काशिका

आत्मन् विश्वजन इत्येताभ्यां भोगोत्तरपदाच् च प्रातिपदिकात् खः प्रत्ययो भवति तस्मै हितम् इत्येतस्मिन् विषये। छस्य अपवादः। आत्मन्निति नलोपो न कृतः प्रकृतिपरिमाणज्ञापनार्थम्। तेन उत्तरपदग्रहणम् भोगशब्देन एव सम्बध्यते, न तु प्रत्येकम्। आत्मने हितम् आत्मनीनम्। आत्माध्वानौ खे 6-4-169 इति प्रकृतिभावः। विश्वजनेभ्यो हितम् विश्वजनीनम्। कर्मधारयादेव इष्यते। षष्ठीसमासाद् बहुव्रीहेश्च छ एव भवति। विश्वजनाय हितम् विश्वजनीयम्। पञ्चजनादुपसङ्ख्यानम्। पञ्चजनाच् च खः। अत्र अपि कर्मधारयादिष्यते। पञ्चजनीनम्। अन्यत्र पञ्चजनीयम्। सर्वजानाट् ठञ् खश्च। सार्वजनिकम्, सर्वजनीनम्। अत्र अपि कर्मधारयादेव। सर्वजनीयम् अन्यत्र। महाजनान्नित्यं ठञ् वक्तव्यः। महाजनाय हितम् माहाजनिकम्। तत्पुरुषादेव। बहुव्रीहेस् तु छ एव भवति। महाजनीयम्। भोगोत्तरपदात् खल्वपि मातृभोगीणः। पितृभोगीणः। भोगशब्दः शरीरवाची। केवलेभ्यो मात्रादिभ्यः छ एव भवति। मात्रीयम्। पितिरियम्। राजाचार्याभ्यां तु नित्यम्। भोगोत्तरपदाभ्यम् एव खः प्रत्ययः इष्यते, न केवलाभ्याम्। राजभोगीनः। आचार्यादणत्वं च। आचार्यभोगीनः। केवलाभ्यां वाक्यम् एव भवति, राज्ञे हितम्, आचार्याय हितम् इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1144

बालमनोरमा

1648 आत्मन्वि\उfffदाजन। अत्मजन्, वि\उfffदाजन, भोगोत्तरपद-एभ्यो हितमित्यर्थे खः स्यादित्यर्थः। `आत्मनीन'मित्युदाहरणं वक्ष्यति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.