Table of Contents

<<5-1-7 —- 5-1-9>>

5-1-8 अजाविभ्यां थ्यन्

प्रथमावृत्तिः

TBD.

काशिका

अज अवि इत्येताभ्यां थ्यन् प्रत्ययो भवति तस्मै हितम् इत्येतस्मिन् विषये। छस्य अपवादः। अजथ्या यूथिः। अविथ्या।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1647 अजाविभ्यां थ्यन्। अजश्च अविश्चेति द्वन्द्वः। अविशब्दस्य धित्वेऽपि `अजाद्यदन्त'मित्यजशब्दस्य पूर्वनिपातः। अजथ्या यूथिरिति। अजेभ्योऽजाभ्यो वा हितेत्यर्थः। लिङ्गविशिष्यपरिभाषा अजाशब्दादपि थ्यन्। `तसिलादिष्वि'ति पुंवत्त्वम्। अविथ्येति। अविभ्यो हितेत्यर्थः। स्त्रीत्वं लोकात्।

तत्त्वबोधिनी

1272 अजादिभ्याम्। अजशब्द इह पुंलिङ्ग उपात्तः। अतएव `द्वन्द्वे घी'त्यविशब्दस्य पूर्वनिपातं बाधित्वा `अजाद्यदन्त'मिति अजशब्दस्य पूर्वनिपातः कृतः। `प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापी'ति स्त्रीलिङ्गादपि थ्यन्। तसिलादिषु थ्यनः परिगणनात्पुंवद्भावे रूपं तुल्यम्। अजथ्येति। अजेभ्यो आजाङ्यो वा हितेति विग्रहः।

Satishji's सूत्र-सूचिः

TBD.