Table of Contents

<<5-1-7 —- 5-1-9>>

5-1-8 अजाविभ्यां थ्यन्

प्रथमावृत्तिः

TBD.

काशिका

अज अवि इत्येताभ्यां थ्यन् प्रत्ययो भवति तस्मै हितम् इत्येतस्मिन् विषये। छस्य अपवादः। अजथ्या यूथिः। अविथ्या।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1647 अजाविभ्यां थ्यन्। अजश्च अविश्चेति द्वन्द्वः। अविशब्दस्य धित्वेऽपि `अजाद्यदन्त'मित्यजशब्दस्य पूर्वनिपातः। अजथ्या यूथिरिति। अजेभ्योऽजाभ्यो वा हितेत्यर्थः। लिङ्गविशिष्यपरिभाषा अजाशब्दादपि थ्यन्। `तसिलादिष्वि'ति पुंवत्त्वम्। अविथ्येति। अविभ्यो हितेत्यर्थः। स्त्रीत्वं लोकात्।

तत्त्वबोधिनी

1272 अजादिभ्याम्। अजशब्द इह पुंलिङ्ग उपात्तः। अतएव `द्वन्द्वे घी'त्यविशब्दस्य पूर्वनिपातं बाधित्वा `अजाद्यदन्त'मिति अजशब्दस्य पूर्वनिपातः कृतः। `प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापी'ति स्त्रीलिङ्गादपि थ्यन्। तसिलादिषु थ्यनः परिगणनात्पुंवद्भावे रूपं तुल्यम्। अजथ्येति। अजेभ्यो आजाङ्यो वा हितेति विग्रहः।

Satishji's सूत्र-सूचिः

TBD.