Table of Contents

<<5-1-88 —- 5-1-90>>

5-1-89 चित्तवति नित्यम्

प्रथमावृत्तिः

TBD.

काशिका

चित्तवति प्रत्ययार्थे ऽभिधेये वर्षशब्दान्ताद् द्विगोर् निर्वृत्तादिष्वर्थेषु उत्पन्नस्य प्रत्ययस्य नित्यं लुग् भवति। पूर्वेण विकल्पे प्राप्ते वचनम्। द्विवर्षो दारकः। चित्तवति इति किम्? द्विवर्षीणो व्याधिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1732 चित्तवति नित्यं। प्रत्ययस्येति। खस्य ठञश्चेत्यर्थः। दारकः। बालकः।

तत्त्वबोधिनी

1338 दारक इति।बालकः। `परिजय्ये'त्यस्य विवरणं `जेतुं शक्यः'इति। `क्षय्यजय्यौ शक्यार्थे'इत्ययादेशः। महानाम्न्योनामेति।तथा चाऽभाषितपुंस्कत्वात्पुंवद्भावो नेति भावः। हरदत्तिस्त्विति। यौगिकोऽयं, न तु रूढ इति मन्यते। माहानामिक इति। पुंवद्भावे कृते `नस्तद्धिते इति टिलोपः। चतुर्मासादिति। मासशब्दस्य कालवाचित्वात्कालाधिकारे वार्तिकारम्भः। न च विशिष्टस्य कालवाचित्वाऽभावादिह सङ्गतिदुर्निरूपेति शङ्क्यं, `प्राग्वतेः संर?ख्यापूर्वपदानां तदन्तग्रहण'मित्यभ्युपगमादस्त्येव सङ्गतिरिति।\र्\नण्संज्ञायाम्। अण्संज्ञायामिति। `तत्र भवः' इत्यनेनैव सिद्धे पुनरण्विधिः `द्विगोर्लुगनपत्ये'इति लङ्बा भूदित्येतदर्थमिदमत्रारब्धम्। एवं चास्मिन् वार्तिके `चतुर्मासा'दित्यस्यानुवृत्तये पूर्ववार्तिकमत्रैवारब्धमित्यपि ज्ञेयम्। चातुर्मासीति। कस्य संज्ञेत्याकाङ्क्षायामाह—आषाढीति। आषाढानक्षत्रयुक्ता पौर्णमासीत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.