Table of Contents

<<5-1-84 —- 5-1-86>>

5-1-85 समायाः खः

प्रथमावृत्तिः

TBD.

काशिका

अधीष्टाऽदयश्चत्वारो ऽर्था अनुवर्तन्ते। समाशब्दाद् द्वितीयास्मार्थादधीष्टादिषु अर्थेषु खः प्रत्ययो भवति। ठञो ऽपवादः समामधीष्टो भृतो भूतो भावी वा समीनः। केचित् तु तेन निर्वृत्तम् 5-1-79 इति सर्वत्र अनुवर्तयन्ति। समया निर्वृत्तः समीनः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1726 समायाः खः। मण्डूकप्लुत्या `तमधीष्टो भृतो भूतो भावी'ति कृत्स्नमेव सूत्रमनुवर्तते। समाशब्दाद्द्वितीयान्तादधीष्टादिष्वर्थेषु खः स्यादित्यर्थः।

तत्त्वबोधिनी

1333 समायाः खः। `हायनोऽस्त्री शरत्समाः'इत्यमरः। समामधीष्ट इत्यादि। अधीष्टादय श्चात्वारोऽर्था अत्राप्यनुवर्तन्त इति भावः।

Satishji's सूत्र-सूचिः

TBD.