Table of Contents

<<5-1-85 —- 5-1-87>>

5-1-86 द्विगोर् वा

प्रथमावृत्तिः

TBD.

काशिका

समायाः खः 5-1-85 इत्येव। समाशब्दान्ताद् द्विगोः निर्वृत्तादिसु अर्थेषु पञ्चसु वा खः प्रत्ययो भवति। पूर्वेण नित्यःप्राप्तो विकल्प्यते। प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्तग्रहणम् अलुकि 7-3-17 इति प्राप्तिरस्त्येव। खेन मुक्ते पक्षे ठञपि भवति। द्विसमिनः, द्वैसमिकः। त्रिसमीनः, त्रैसमिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1727 द्विगोर्वा। समायाः ख इत्येवेति। तथाच समान्ताद्विगोर्द्द्वितीयान्तात्खो वा स्यात्, पक्षे ठञिति फलितम्। `अप्सुमनःसमासिकतावर्षाणां बहुत्वं चे'ति लिङ्गानुशासनसूत्रम्। `हायनोऽस्त्री शरत्समाः' इत्यमरः। `समां समां विजायते' इति सूत्रादेकवचनमप्यस्ति। पञ्चस्विति। `ते निर्वृत्तं' `तमधीष्ठो भृतदो भावी'ति पञ्चस्वित्यर्थः। एषां यथायोगमन्वयः। द्वैसमिक इति। खाऽभावे प्राग्वतीयष्ठञ्।

तत्त्वबोधिनी

1334 द्विगोर्वा। `संख्यापूर्वपदानांतदन्तग्रहणमलुकी'त्यभ्युपगमात्पूर्वेण नित्ये प्राप्ते विकल्पः। द्वैसमिक इति। खेन मुक्ते पक्षे ठ?ञिति भावः।

Satishji's सूत्र-सूचिः

TBD.