Table of Contents

<<5-1-78 —- 5-1-80>>

5-1-79 वक्ष्यति तेन विर्वृत्तम्

प्रथमावृत्तिः

TBD.

काशिका

मासेन निर्वृत्तम् मासिकम्। आर्धमासिकम्। सांवत्सरिकम्। कालातित्यधिकारः व्युष्टाऽदिभ्यो ऽण् 5-1-97) इति यावत्। तेन निर्वृत्तम् (*5,1.79। तेन इति तृतीयासमर्थात् कालवाचिनः प्रातिपदिकात् विर्वृत्तम् इत्यस्मिन्नर्थे ठञ् प्रत्ययो भवति। अह्ना विर्वृत्तम् आह्निकम्। आर्धमासिकम्। सांवत्सरिकम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1153

बालमनोरमा

1720 तेन निर्वृत्तम्। तृतीयान्तान्निर्वृत्तमित्यर्थे ठञ्स्यादित्यर्थः। आह्निकमिति। `अह्नष्टखोरेवे'ति नियमान्न टिलोपः।

तत्त्वबोधिनी

1329 तेन निर्वृत्तम्। तृतीयान्कतात्कालवाचिनष्ठञ्स्यात्। तेनेति करणे तृतीया। चतुरथ्र्यान्तर्गते `तेन निर्वृत्त'मित्यत्र तु कर्तरि तृतीयेति विशेषः। उभयत्राप्यन्तर्भावितण्यर्थाद्वृतेः कर्मणि क्तः। आह्निकमिति। `अह्नष्टखोरेवे'ति नियमात्। `नस्तद्धिते'इति टिलोपो न।

Satishji's सूत्र-सूचिः

TBD.