Table of Contents

<<5-1-80 —- 5-1-82>>

5-1-81 मासाद् वयसि यत्खञौ

प्रथमावृत्तिः

TBD.

काशिका

मासशब्दाद् वयस्यभिधेये यत्खञौ प्रत्ययौ भवतः। ठञो ऽपवादौ। अधीष्टादीनां चतुर्णाम् अधिकारे ऽपि सामर्थ्याद् भूत एव अत्र अभिसम्बध्यते। मासं भूतः मास्यः, मासीनः। वयसि ति किम्? मासिकम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1722 मासाद्वयसि। अत्र भूत इत्येवानुवर्तते, व्याख्यानात्। मासशब्दाद्द्वितीयान्ताद्भूत इत्यर्थे यत्खञौ स्तो वयसि गम्ये इत्यर्थः।

तत्त्वबोधिनी

1330 मासाद्वयसि। खञो ञित्करणं स्वरार्थं, पुवंद्भावप्रतिषेधार्थं च। मासीनाभार्यः। अधीष्टादीनां चतुर्णामधिकारेऽपि सामथ्र्याद्भूत इत्येतदत्र संबध्यते।न हि मासमधीष्टो भृतो वेत्याद्युक्तौ काचित्कालकृता शरीरावस्था गम्यत इत्याशयेनाह—मासं भूत इति। एतच्च वृत्तिपदमञ्जर्योः स्पष्टम्। मासीन इति। बालकः।

Satishji's सूत्र-सूचिः

TBD.