Table of Contents

<<5-1-82 —- 5-1-84>>

5-1-83 षण्मासाण् ण्यच् च

प्रथमावृत्तिः

TBD.

काशिका

वयसि इत्येव। षण्मासशब्दाद् वयस्यभिधेये ण्यत् प्रत्ययो भवति, यप् च। औत्सर्गिकष्ठञपीष्यते, स चकारेण समुच्चेतव्यः। स्वरितत्वाच्चानन्तरो ऽनुवर्तिष्यते। तेन त्रैऋऊप्यं भवति। षाण्मासय्ः, षण्मास्यः, षाण्मासिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1724 अत्र चकारात्सन्निहितस्य यपोऽनुकर्षणे ण्यद्यवावेव स्यातां, नतु ठञपि। इष्यते तु ठञपि। तत्राह–यवप्यनुवर्तत इति। स्वरितत्वादिति भावः। तर्हि चकारः किमर्थ इत्यत आह–चाट्ठञिति। तथा च ण्यत् यप्-ठिञिति त्रयः प्रत्ययाः फलिताः।

तत्त्वबोधिनी

1332 यबप्यनुवर्तत इति। व्याख्यानमेवात्र शरणम्।

Satishji's सूत्र-सूचिः

TBD.