Table of Contents

<<5-1-79 —- 5-1-81>>

5-1-80 तम् अधीष्टो भृतो भूतो भावी

प्रथमावृत्तिः

TBD.

काशिका

तम् इति द्वितीयासमर्थात् कालवाचिनः प्रातिपदिकातधीष्टो भृतो भूतो भावी वा इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। अधीष्टः सत्कृत्य व्यापादितः। भृतः वेतनेन क्रीतः। भूतः स्वसत्तया व्याप्तकालः। भावी तादृश एवानागतः। कालाध्वनोरत्यन्तसंयोगे 2-3-5 इति द्वितीया। मासमधीष्टः मासिको ऽध्यापकः। मासं भृतः मासिकः कर्मकरः। मासं भूतः मासिको व्याधिः। मासं भावी मासिकः उत्सवः। ननु चाध्येषणं भरणं च मुहूर्तं क्रियते तेन कथं मासो व्याप्यते? अध्येषणभरणे क्रियार्थे, तत्र फलभूतया क्रियया मासो व्याप्यमानस् ताभ्याम् एव व्याप्तः इत्युच्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1721 तमधीष्टो द्वितीयान्तादधीष्टादिष्वर्थेषु ठ?ञ्स्यादित्यर्थः। व्यापारित इति। प्रेरित इत्यर्थः। तादृश एवेति। स्वसत्तया व्याप्यमानकाल इत्यर्थः। मासमधीष्य इत्यादौ `कालाध्वनो'रिति द्वितीया।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.