Table of Contents

<<5-1-6 —- 5-1-8>>

5-1-7 खलयवमाषतिलवृषब्रह्मणश् च

प्रथमावृत्तिः

TBD.

काशिका

खलाऽदिभ्यो यत् प्रत्ययो भवति तस्मै हितम् इत्येतस्मिन् विषये। छस्य अपवादः। खलाय हितम् खल्यम्। यव्यम्। माष्यम्। तिल्यम्। वृष्यम्। ब्रह्मण्यम्। वृष्णे हितम्, ब्राह्मणेभ्यो हितम् इति वाक्यम् एव भवति। छप्रत्ययो ऽपि न भवति, अनभिधानात्। चकारो ऽनुक्तसमुच्चयार्थः। रथाय हिता रथ्या।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1646 खलयव। खलादिभ्यश्चतुथ्र्यन्तेभ्यो हितमित्यर्थे यत्स्यादित्यर्थः। वृषशब्दोऽत्र अकारान्त एव गृह्रते, नतु नकारान्तः। तेन `वृष्णे हित'मिति वाक्यमेव। ब्राहृन्शब्दो ब्राआहृणवाच्येव गृह्रते, नतु वेदादिवाची। तेन `ब्राहृणे वेदाय हित'मिति वाक्यमेवेति भाष्ये स्पष्टम्। ब्राहृण्यमित्यत्र `ये चाभावकर्मणो'रिति प्रकृतिभावान्न टिलोपः। चाद्रथ्येति। चकारस्यानुक्तसमुच्चयार्थत्वादिति भावः।

तत्त्वबोधिनी

1271 खलयव। अत्र वृषशब्दोऽकारान्तो गृह्रते न तु नकारान्तः। अन्यथा ह्रसदेहार्थं नलोपमकृत्वै निर्दिशेत्, `आत्मन्वि\उfffदाजने'ति वत्। वृषाय हितं वृष्यम्। नान्ताद्यति तु —-वृषण्यमिति स्यात्। ब्राहृण्यमिति। ब्राहृन्शब्दो ब्राआहृणपर्यायः। प्रकृतिभावस्तु `ये चे'त्यनेन पूर्ववत्। इह वृषन्शब्दाद्द्ब्राहृणशब्दाच्च यतः प्राप्तिरेव नास्ति। छेऽप्यनभिधानान्नेत्याकरः। तेन—वृष्णे हितं , ब्राआहृणेभ्यो हितमिति वाक्यमेव। चाद्रथ्येत। गवादिषुरथशब्दो न पठितः। हितार्थ एव रथ्येति स्यात्, अर्थान्तरे मा भूदिति।

Satishji's सूत्र-सूचिः

TBD.