Table of Contents

<<5-1-75 —- 5-1-77>>

5-1-76 पन्थो ण नित्यम्

प्रथमावृत्तिः

TBD.

काशिका

नित्यग्रहणं प्रत्ययार्थविशेषणम्। पथः पन्थ इत्ययम् आदेशो भवति णश्च प्रत्ययो नित्यं गच्छति इत्यस्मिन् विषये। पन्थानं नित्यं गच्छति पान्थो भिक्षां याचते। नित्यम् इति किम्? पथिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1717 पन्थो ण नित्यम्। पथ इत्यनुवर्तते, गच्छतीति च। नित्यमिति गच्छतीत्यत्रान्वितं प्रत्ययार्थप्रविष्यमेव, नतु विधानान्वितं सत् महाविभाषानिवृत्त्यर्थम्। द्वितीयान्तात्पथिन्शब्दान्नित्यं गच्छतीत्यर्थे णप्रत्ययः स्यात्, प्रकृतेः पन्थादेशश्चेत्यर्थः। भाष्ये तु नित्यग्रहणं प्रत्याख्यातम्।

तत्त्वबोधिनी

1326 पन्थो ण। पथः `पन्थ'इत्ययमादेशः स्याण्णश्च प्रत्ययः। नित्यग्रहणमिह प्रत्ययार्थविशेषणं , न तु वाक्यनिवृत्त्यर्थमित्याशयेनाह—नित्यं गच्छतीति। नित्यमिति किम्?। पथिकः। भाष्ये तु नित्यग्रहणं प्रत्याख्यातम्। इहं हि भाष्याशयः- –नित्यं पन्थानं गच्छतीत्यर्थोऽत्र यद्यपि संभवति, तथापि नात्रैवार्थे पान्थशब्दस्य प्रयोग इष्यते, कदाचिद्गच्छत्यपि तत्प्रयोगात्। न चैवमपि विग्रहवाक्यनिवृत्त्यर्थं नित्यग्रहणमस्त्विति शङ्क्यम्। शिष्टप्रयोगे विग्रहवाक्यस्य दर्शनादिति। उत्तरपथेन। चकारेण गच्छतीति प्रत्ययार्थः समुच्चीयते।

Satishji's सूत्र-सूचिः

TBD.