Table of Contents

<<5-1-76 —- 5-1-78>>

5-1-77 उत्तरपथेनाहृतं च

प्रथमावृत्तिः

TBD.

काशिका

निर्देशादेव समर्थविभक्तिः। उत्तरपथशब्दाद् तृतीयासमर्थाताहृतम् इत्येतस्मिन् विषये ठञ् प्रत्ययो भवति। चकारः प्रत्ययार्थसम् उच्चये, गच्छति इति च। अत्र अपि तृतीया एव समर्थविभक्तिः। उत्तरपथेनाऽहृतम् औत्तरपथिकम्। उत्तरपथेन गच्छति औत्तरपथिकः। आहृतप्रकरणे वारिजङ्गलस्थल्कान्तारपूर्वपदादुपसङ्ख्यानम्। वारिपथेन आहृतम् वारिपथिकम्। वारिपथेन गच्छति वारिपथिकः। जङ्गलपथेन आहृतम् जाङ्गलपथिकम्। जङ्गलपथेन गच्छति जाङ्गलपथिकः। स्थलपथेन आहृतम् स्थालपथिकम्। स्थलपथेनगच्छति स्थालपथिकः। कान्तारपथेन आहृतम् कान्तारपथिकम्। कान्तारपथेन गच्छति कान्तारपथिकः। अजपथशङ्कुपथाभ्यां च उपसङ्ख्यानम्। अजपथेन आहृतम् आजपथिकम्, गच्छति वा आजपथिकः। शङ्कुपथेन आहृतम् शाङ्कुपथिकम्। गच्छति वा शाङ्कुपथिकः। मधुकमरिचयोरण् स्थलात्। स्थलपथेन आहृतम् स्थालपथं मधुकम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1718 उत्तरपथेनाह्मतं च। उत्तरपथशब्दात्तृतीयान्तादाह्मतमित्यर्थे, गच्छतीत्यर्थे च ठञ्स्यादित्यर्थः। एतत्पूर्वात्पथिन्शब्दात्तृतीयान्तादाह्मतमिति, गच्छतीति चार्थे ठञित्यर्थः। वारिपथेन गच्छति, आह्मतं वेत्यर्थः। जाङ्गलपाथिकः, स्थालपथिकः, कान्तारपथिकः।

तत्त्वबोधिनी

1327 उत्तरपथेन गच्छतीति। वारिपथिकमिति। वारिपथेन गच्छ [ती]ति, वारिपथेनाह्ममिति वा विग्रहः।

Satishji's सूत्र-सूचिः

TBD.