Table of Contents

<<5-1-73 —- 5-1-75>>

5-1-74 योजनं गच्छति

प्रथमावृत्तिः

TBD.

काशिका

योजनशब्दात् द्वितीयासमर्थाद् गच्छति इत्यस्मिन्नर्थे ठञ् प्रत्ययो भवति। योजनं गच्छति यौजनिकः। क्रोशशतयोजनशतयोरुपसङ्ख्यानम्। क्रोशशतम् गच्छति क्रौशशतिकः। यौजनशतिकः। ततो ऽभिगमनम् अर्हति इति च क्रोशशतयोजनशतयोरुपसङ्ख्यानम्। क्रोशशतादभिगमनम् अर्हति क्रौशशतिको भिक्षुः। यौजनशतिक आचार्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1715 योजनं गच्छति। द्वितायान्ताद्योजनशब्दाद्गच्छतीत्यर्थे ठञ्स्यादित्यर्थः।

उपसङ्ख्यानमित्यर्थः। क्रोशशतादिति। ल्यब्लोपे पञ्चमी। क्रोशशतमतीत्येत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.