Table of Contents

<<5-1-72 —- 5-1-74>>

5-1-73 संशयमापन्नः

प्रथमावृत्तिः

TBD.

काशिका

संशयशब्दाद् द्वितीयासमर्थातापन्नः इत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति। संशयम् आपन्नः प्राप्तः सांशयिकः स्थाणुः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1714 संशयमापन्नः। अस्मिन्नर्थे संशयशब्दाद्द्वितीयान्ताट्ठक्स्यादित्यर्थः। अत्र `आपन्न' इति कर्तरि क्तः। विषयतया प्राप्त इत्यर्थः, उपसर्गवशात्। संशयविषयीभूतोऽर्थ इति। तेन समवायेन संशयाधारे संदेग्धरिनायं प्रत्यय इति भावः। अमरस्तु `सांशयिकः संशयापन्नमानसः' इत्याह।

तत्त्वबोधिनी

1325 विषयीभूतोऽर्थ इति। `स्थाणुर्वा पुरुषो वे'तित संशयविषयीभूते स्थाण्वादावेव प्रत्यय इष्यते, न तु संदेग्धरीति भावः। कथं तर्हि `सांशयिकऋ संशयापन्नमानसः'इत्यमर इति चेत्। अत्राहुः——संशयापन्नं मानसं यस्मिन्विषये स विषयः संशयापन्नमानस इति। पञ्चम्यन्तात्प्रत्ययः।

Satishji's सूत्र-सूचिः

TBD.