Table of Contents

<<5-1-63 —- 5-1-65>>

5-1-64 छेदाऽदिभ्यो नित्यम्

प्रथमावृत्तिः

TBD.

काशिका

नित्यग्रहणं प्रत्ययार्थविशेषणम्। छेदाऽदिभ्यो द्वितीयासमर्थेभ्यो नित्यम् अर्हति इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। छेदं नित्यम् अर्हति छैदिकः। भैदिकः। छेद। भेद। द्रोह। दोह। वर्त। कर्ष। संप्रयोग। विप्रयोग। प्रेषण। संप्रश्न। विप्रकर्ष। विराग विरङ्गं च। वैरङ्गिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1706 छेदादिभ्यो आभीक्ष्ण्यमिति। पौनःपुन्यमित्यर्थः। तन्नित्यमर्हतीत्यर्थे द्वितीयान्तेभ्यश्छेदादिभ्यो यथाविहितं प्रत्ययः स्यादित्यर्थः। छैदिको वेतस इति। `आर्हा'दिति ठक्। `तदर्हति' इत्येव सिद्धे आभीक्ष्ण एवेति नियमार्थमिदं सूत्रम्। वस्तुतस्तु नित्यमिति नाभीक्ष्ण्यार्थकं प्रत्ययार्थकोटि प्रविष्टं, किंतु अपाक्षिकार्थकम् `समर्थानां प्रथमाद्वा' इति वाग्रहणानुवृत्तिनिवृत्त्यर्थमित्यभिप्रेत्य विग्रहवाक्यस्यापि लोके दर्शनान्नित्यग्रहणं न कर्तव्यमित्युक्तं भाष्ये। एवंच छेदादिभ्यः पाक्षिकप्रत्ययस्य `तदर्हती'त्येव सिद्धत्वात्सूत्रमेवेदं नारब्धव्यमिति। फलति। विराग विरङ्गं चेति। गणसूत्रमिदम्। उक्तेऽर्थे विरागशब्दो विरङ्गादेशं लभत इत्यर्थः चादार्हीयष्ठक्।

तत्त्वबोधिनी

1319 छेदादिभ्यो। नित्यग्रहणमिह `नित्यं क्रीडाजीविकयो'रित्यत्रेव महाविभाषया प्राप्तस्य वाक्यस्य निवृत्त्यर्थं न भवति, आरम्भसामथ्र्यादेव तन्निवृत्तिसिद्धेः, किं तु प्रत्ययार्थविशेषणमिति द्वनयति—छेदं नित्यमर्हतीति। भाष्ये तु नित्यग्रहणं प्रत्याख्यातं। सूत्रमेव मास्त्विति तदाशय इति मनोरमा। अयं भावः—- नित्यग्रहणमिह प्रत्ययार्थविशेषणं न भवति, नित्यं छेदमर्हतीत्यस्यार्थस्यासम्भवात्। कालान्तर एव तस्य छेदप्रवर्तनात्। न चात्र नित्यग्रहणत्यागेऽपि छेदमर्हतीत्यादिविग्रहवाक्यनिवृत्तये सूत्रस्यावश्यकत्वातत्तत्प्रत्याख्यानं न युज्यत इति शङ्क्यम्। विग्रहवाक्यस्य भाष्यादिसंमतत्वादिति दिक्। छेद भेद द्रोह दोषेत्यादयश्छेदादयः। गणसूत्रमाह— विरागेति।

Satishji's सूत्र-सूचिः

TBD.