Table of Contents

<<5-1-61 —- 5-1-63>>

5-1-62 त्रिंशच्चत्वारिंशतोर् ब्राह्मणे संज्ञायां डण्

प्रथमावृत्तिः

TBD.

काशिका

तदस्य परिमाणम् इत्येव। वर्गे इति निवृत्तम्। त्रिंशच्चत्वरिंशच्छब्दाभ्यां संज्ञायां विषये डण् प्रत्ययो भवति तदस्य परिमाणम् इत्येतस्मिन् विषये ब्राह्मणे ऽभिधेये। अभिधेयसप्तमी एषा, न विषयसप्तमी। तेन मन्त्रभाषयोरपि भवति। त्रिंशदध्यायाः परिमाणम् एषां ब्राहमणानां त्रैशानि ब्राह्मणानि। चात्वारिंशानि ब्राह्मणानि। कानिचिदेव ब्राह्मणान्युच्यन्ते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1704 तिं?रशच्चत्वारिंशतोः। तदस्य परिमाणमित्यर्थे परिमाणिनि ब्राआहृणे वाच्ये त्रिशच्चत्वारिंशद्भ्यां डण्स्यादित्यर्थः। ब्राआहृणं=वेदेषु मन्त्रव्यतिरिक्तो भागः। त्रैंशानीति। डित्त्वात् `टेः' इति टिलोपः।

तत्त्वबोधिनी

1317 तिं?रशच्चत्वारिंशतोः। व्यत्ययेन पञ्चम्यर्थे षष्ठीद्विवचनम्। `चत्वारिंशतो ब्राआहृणे'इति पाठे तु समाहारद्वन्द्वात्पञ्चम्येकवचनम्। इह `ब्राआहृणसंज्ञाया'मिति षष्ठीसमासेन निर्देष्टुमुचितम्। तथा हि सति `ब्राआहृणस्य चेत्संज्ञा'इतिस्फुटीभवति। अन्यथा तु यस्य कस्यचित्संज्ञायां ब्राआहृणस्थे च प्रयोगे इत्यनिष्टोऽर्थः सम्भाव्येत। ततश्च मन्त्रे भाषायां च डण्न सिध्येत्। इष्यते च सः। तस्मादिष्टानुरोधेन षष्ठ\उfffद्र्थे सप्तमीति व्याख्येयम्। `ब्राआहृणेऽभिधेये'इति तु काशिकायां व्याख्यातम्। ठञादय इति। ठञ उदाहरणं तु —- प्रस्थमर्हति प्रास्थिकः,द्रौणिकः इत्याद्यूह्रम्। आदिशब्दग्राह्रस्य ठक उदाहरणमाह।

Satishji's सूत्र-सूचिः

TBD.